पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [सप्तमप्र- नामृस्विजां स्यात् । अतः प्रजाम्यस्त्वेति मन्त्रेणावशिष्टानपि सोमांशूनुपसमूहति दश- मुष्टिपरिमितसोमेन संयोनयेदिति यावत् । तथा सति सदस्याननुगृहीतवान्भवत्यध्वर्युरिति श्रुतेरों द्रष्टव्यः ।

समुद्गृह्य वाससोऽन्तान्प्राणाय त्वेति क्षौमेणोष्णीषेणोपनह्यति ।

समुदृह्य वासतोऽन्तान्सम्यगुह्मोवं गृहीत्वा सोमांशूनामेकीकरणार्थं तूष्णीमेव वाससोऽन्तावाससः प्रान्तान्झौमेणोष्णीपेण दीर्घशाटकेन वाससोपनाति दृढं बध्नाति । एतच्च पासः परिधानयोग्य, सोमोपहतं वासो. यजमानः परिधत्त इत्यग्रेऽवभृये वक्ष्यमाणत्वात् । प्रादक्षिण्यं परिभाषासिद्धम् ।

व्यानाय त्वेत्यनुशृन्थति ।

अनुशृन्थति शिथिली करोति । किंचिदवेक्षणार्थ कचित्प्रदेशे तूष्णीमेव विस्रस्ये- त्यर्थः । मन्त्रानुपदेशात् । एतच्चावेक्षणाङ्गम् । नच विस्रेसनं विनेक्षणानुपपत्तेरर्थत एवं सिद्धौ वचनं व्यर्थमिति वाच्यम् । बद्धस्यैव राज्ञ ईक्षणं वारयितुं तद्वचनस्याss. पश्यकत्वेन वैयाभावात् । सोमविक्रयिणे राजानं प्रदाय तं पृच्छतीत्येतत्प्रभृतिक- मर्थितां बोधयितुं वा । अत्र नियममाह बौधायन:-अथोपरिष्टादङ्गुल्याऽवकाशं कृत्वेति ।

प्रजास्त्वमनुप्राणिहि प्रजास्त्वामनुप्राणन्त्वित्यवेक्ष्यैष ते गायत्रो भाग इत्येतैर्मन्त्रैरभिमन्त्रयते ।। ६ ।।

पूर्वत्र प्रजाकर्मकमनुप्राणनमुत्तरत्र प्रनाकर्तृकमनुप्राणनमित्येतादृशार्थभेदान्मन्त्राद्वि- त्वमिति शङ्कां द्वितीयाध्यायप्रथमपादगतेनार्थकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्थादित्यनेन सूत्रेण भगो वामित्यस्मिन्मन्त्रेऽथैक्येऽपि आकाङ्क्षाया अभावादनेके मन्त्रा इति यथा प्रतिपादितं जैमिनिना तथाऽनुप्राणनरूपाक्येऽपि आकाङ्क्षाया अमावान्मन्त्रद्वित्वमिति शङ्कां च दूरीकर्तुं कृत्स्नः पाठः । अर्थेकत्वादेक वाक्यं साकाङ्क्ष चेद्विभागे स्यादित्येतत्सूत्रार्थस्तु-अर्थशब्दोऽत्र नाभिधेयवाची किंतु प्रयोज नवचनः । तथाच प्रयोजनकत्वादित्यर्थों भवति । नटेके यजुरित्येव वक्तव्ये यजुष्परिमा- णविचार एकवाक्यलक्षणमसंगतमित्याशङ्कय नात्र लौकिकवाक्यसाधारण्येनैकवाक्यल- क्षणमुच्यते किंतु तावदेकं यजुरित्येक यजुष एवेत्याशयेन सूत्रे वाक्यशब्दस्य यजुष्परत्वम् । ननु वाक्यशब्दयजुःशब्दयोः कथमेकार्थत्वमिति चेत् । उच्यते- यागसाधनत्वायजुः, यागप्रयोगे वक्तव्यत्वाच्च वाक्यम् । तथाचैकार्थत्व वाक्ययनुः शब्दयोः सिद्धं भवति । ततश्चेदमपि यागसाधनत्वे पर्यवसितमिति भावः । वक्तव्यत्वादित्यनेनैव यावदेकं यजुस्तावत्प्रयोगसमये प्रयोक्तव्यं नतु तदेकदेश इति प्रयोजनमपि सूचितम् । एवं च तत्प्रयोजनसूचनायव सूत्रे यजुःशब्दे