सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ६३२ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रश्ने-

उत्तरेण राजानं चर्मणि क्षौमं वासोऽहतं महद्विगुणं चतुर्गुणं वा प्राचीनदशमुपरिष्टाद्दशमास्तीर्याभित्यं देवमिति तस्मिन्सहिरण्येन पाणिनाऽतिच्छन्दस र्चा राजानं मिमीत एकैकयाऽङ्गुल्या प्रसारितया ।

अत्र ब्राह्मणे विशेष:-यं कामयेतापशुः स्यादित्यक्षतस्तस्य मिमीतर्स वा अपशव्य. मपशुरेव भवति य कामयेत पशुमान्स्यादिति लोमतस्तस्य मिमीतेतद्वै पशूनार रूप५ रूपेणैवास्मै पशूनवरुन्धे पशुमानेव मवतीति । असं चर्मणो विशस्तदेशस्तस्मिन्राजानं मिमीत इत्यर्थः । लोमतो लोमवति प्रदेशे। लोमशब्दादर्शआदित्वादज्मत्वर्थे । उभयत्र सप्तम्पास्तासिः । नहि निन्दा निन्दितुं प्रवर्ततेऽपि तु स्तुत्यं स्तोतुमितिन्यायेनोत्तरपक्षस्य प्राशस्त्यं कथयितुं पूर्वस्य निन्दा। एनपादु(पो)प्तराज्ञः समीपे चर्मणि आस्तृते चर्मणि । अत्र सामान्यतश्चर्मणीत्युक्त्या यस्य कस्यचिन्मेध्यस्य पोश्चर्मात्र ग्राह्यम् । क्षुमाऽ- तसीवृक्षत्वक् । तन्निर्मितं क्षौमम् । एतदभावे प्रतिनिधिभूतं कौशेयादि । पूर्वोदाते- पद्धौतत्वादिलक्षणलक्षितमहतम् । महत्सोमबन्धनपतिं, श्रौतप्रायश्चित्तप्राप्त्यर्थमेतत् । द्विगुणत्वचतुर्गुणत्वयोरैच्छिको विकल्पः । अतिरात्राप्तोर्यामयोरहगणेषु च सोमबाहुल्या- द्विगुणम् । अग्निष्टोमायेकाहेषु सोमाल्पत्वाच्चतुर्गुणमिति व्यवस्थितविकल्पो वा। प्राचीनोपरिष्टादशमित्येकपककरणे प्राचीनत्वमुरिष्टादशानां विशेषणम् । तथाचोपरि ष्टादशा एवं प्राचीना नाधस्तनाः । वास्तु प्रतीचीना इत्ययर्थः संभाव्येत स मा भूदि. त्येतदर्थ पदद्वयकरणम् । तस्मिन्नास्तृने वाससि सहिरण्येनेति पूर्ववद्याख्येयम् । अतिच्छन्दसेति ज्ञानार्थ, ज्ञानाभावे दक्षिणानौ भुव इति यजुर्भेषप्रायश्चित्तम् । अत्रर्चा मानमुक्तम् । तस्याङ्गत्वेन वक्ष्यमाणं पञ्चेतिसंख्याविधानम्। ऋतिवचनं यहचोऽधीत इत्यदृष्टप्रतिपत्त्यर्थम् । अन्यत्रापि यत्र यति वदति तत्रापीदमेव प्रयोजनं ज्ञेयम् । एकैकया, एकथैकयाऽङ्गुल्या प्रसारितया याबद्रहीतुं शक्यते तावमिमीत इत्यर्थः । उत्सर्गमिति शेषः । एकयैकयोस: मिमीत इति श्रुतेः । उत्सर्गमुत्सृज्योत्सृज्य पूर्वा पूर्वामङ्गुलि क्रमादुत्तरयोत्तरया चै कयैकथा, एवं मिमीत इत्यर्थः । सुवरिति मन्त्रान्तः

सर्वास्वङ्गुष्ठमुपनिगृह्णाति ।

सर्वास्वङ्गलीषु मानकालेऽङ्गुष्ठं योजयेदित्यर्थः ।

यया प्रथमं न तया पञ्चमं तयैव दशमम् ।

न तया पश्चममित्यस्यायं भावः-कनिष्ठिकादिभिश्चतसृभिः क्रमेण माने कृते पुनः कनिष्ठिकादिक्रमस्वीकारे मध्यमानामिकयोद्धयोः परित्यागः स्यात् । तथाकयैकयोत्सर्ग मिमीत इत्यनया श्रुत्या विरोध आपोतेति । कनिष्ठिकादिभिश्चतसृभिः क्रमेण मानच- तुष्टयं कृत्वा मध्यमानामिकाकनिष्ठिकाभिः क्रमेण मानत्रयं कृत्वा पुनर्मध्यमानामिका•