सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ द्वि०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् ।

अपि पन्थामगस्महीति परिश्रितेन शकटेन च्छदिष्मतोद्धृतपूर्वफलकेन राजानमच्छ याति ।

परिचितेन सुगन्धितृणकटादिना । छदिष्मता तथाभूततृणनिर्मितच्छदिषोपर्याच्छा- दनात् । उद्धृतानि पूर्वाणि पुराणानि पूर्वमागस्थानि वा फलकानि यस्य । अनेन नूतनफलकानां योजनं सूच्यते । शकटं प्रसिद्धम् । एतादृशेन शकटेन सह राजानं सोममच्छ याति अभिमुखो यातीत्यर्थः । सोमशब्दं परित्यज्य राजशब्दप्रयोगो राजमा- वनयाऽभिमुखगमनार्थः । गिरी क्रीते विशेषः श्रुतौ-तस्माच्छीर्षहार्य गिरी जीवन- मिति । आपस्तम्बोऽपि-शीर्णा गिरी क्रोत हरन्तीति । अस्मिन्पक्ष आनबुहचर्मा- स्तरणादिकं सर्व गिरावेव शकटामावः । अपि पन्धामगस्महीति मनस्तु भवत्येव गमनाभिधानादिति केचित् । येन विश्वाः परिद्विषो कृणक्तीति शकटाभिधामाल्लोपो मन्त्रस्येत्यन्ये । पायसौदनेन पूजनं तत्र गत्वैव ।

उत्तरेण राजानꣳ शकटं मुखेन प्रतिष्ठाप्या मात्योऽसीत्यभिमन्त्रयत आस्माकोऽसीति वा ।

उत्तरेणेत्येनपा राज्ञः समीपे । तेन सर्वतः परिश्रित्य तस्योदीची द्वारं कृत्षेत्यत्र तथा कटादिभिः परिश्रयणं द्वार च कर्तव्यं यथा शकट परिश्रिते द्वारेण गच्छतीति द्रष्टव्यम् । शकटमपरेणैव राज्ञः समीपं गच्छति प्राङ्मुखत्वानुगुण्यात् । मुखेनाम- भागेन(ग) । अनेनोपस्तम्मन व्यावयते । उत्तरेण तं तन्मुखेन प्रतिष्ठाप्येति तत्तद्वि. भक्त्यन्ततत्तलिङ्गकतच्छब्देनैवोभयोः परामर्शसिद्धौ राजानमितिपुनर्वचनं सर्वत्राभिम- त्रणं राजभावनापूर्वकमेव कर्तव्यमितिसूचनार्थम् । शकटस्य पुनर्वचनं शकटस्यैव मुखेन प्रतिष्ठापनं न स्थस्येतिनियमसूचनार्थम् । तेन रथपक्षोऽप्यस्तौति गम्यते । रथश्चतु- श्चक्रः । अमिमन्त्रणं राज्ञ एव नतु शकटस्य मन्त्रे पुंलिङ्गश्रवणात् , आपस्तम्नेन स्पष्ट- मभिहितत्वाच्च । उत्तरस्याऽऽदिनेति परिभाषया ग्रह इति मन्त्रान्तः । आस्माकोऽसी. त्ययं शाखान्तरीयो मन्त्रांशोऽमात्योऽसीत्यस्य स्थाने विकल्पते नतु कृत्स्त्रस्यामात्योऽसि शुक्रस्ते ग्रह इत्यस्य स्थान आस्माकोऽसीत्येतावानेव विकल्पेन भवति । तथाच शुक्रस्ते ग्रह इत्यत्रापि अनुषञ्जनीयमेव । अथवाऽमात्योऽसीत्येतावानेव मन्त्रो निराकाङ्क्षत्वात् । अस्मिन्पक्ष आस्माकोऽसीति सुतरां तावानेव । एतादृशव्याख्यायामशुना ते अश्शु. रित्यय मन्त्रो ग्रह इत्यन्तो द्रष्टव्यः । शकटप्रतिष्ठापने विशेषमाहाऽऽपस्तम्बः-प्रागी- पमुदगीषं वा नद्धयुग शकटं चुबुकप्रतिष्ठितमिति ।

अꣳशुना ते अꣳशुः पृच्यतामित्यꣳशून्समुद्वपति ।

एकत्र राशीभूतान्करोति । अंशवः काण्डानि । शुद्धभूमाविति शेषः । चर्मण उत्तरत्रोपादानात् । यदि चर्मणि समुद्रूपनमिष्टं भवेत्तदाऽत्रापि ब्रूयादेव । अच्युत इति मन्त्रान्तः । ग्रह इति मन्त्रान्तो वा। 4 -