सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । नेनेति सादनः । एष ते योनिरिन्द्राय . त्वेति सादनः । एतौ सनमति । अनयोरूहः कर्तव्य इत्यर्थः ।

ब्राह्मणाच्छꣳसिचमसमुख्याꣳश्चमसानुन्नयनेकस्मै चमसगणाय राजानमतिरेचयति ।

अच्छावाकसंवन्धिस्तुतशस्त्रपयुक्त चमतसमूहाय यावानुपयुज्यते सोमस्तावदेवाति- रेषयति न न्यून नातिरिक्तमतिरेचयति । सर्वथाऽतिरेको यथा न भवति तथा प्रयत्नेन पतितव्यमतिरेके प्रायश्चित्तस्य श्रवणात् ।

ब्राह्मणाच्छꣳसिचमसे ग्रहसंपातमवनयति न प्रतिप्रस्थाता भक्षयति ।

तस्य चमसे संपातेऽवनीतेऽपि होमामिषवाभ्यां मक्ष इति प्राप्तस्य भक्षस्यायं निषेधः । ब्राह्मणाच्छंसिनः समाख्याभक्षस्तन्त्रेणेव प्रतिभक्षितुरभावात् । नोपहवो यापहूतः स्याद्रक्षयेत्येव व्यादिति वदेदच्छावाकचमसे तथा दर्शनात् ।

इन्द्राग्निभ्यां त्वेति तृतीये ग्रहणसादनौ संनमति ।

तृतीय उक्थ्यविग्रहे।

न स्थालीं प्रत्यभिमृशति ।

सस्याः स्थाल्या रिक्तत्वात् ।

अच्छावाकचमसमुख्याꣳश्चमसानुन्नय सर्वꣳ राजानमुन्नय माऽतिरीरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति संप्रेष्यति ।

पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य तस्मिन्द्रोणकलशस्थं राजानं सर्व - पूतभृत्यवनीय दशाभिः कलशौ पूतभृद्रोणकलशौ दशापवित्रेण शुकौ कृत्वा न्युन न्यचौ कुरु इति प्रैषार्थः । उन्नेताऽत्र प्रेष्य एकवचनात् । सर्व राजानमुनयेत्येता. तैव सिद्धे माऽतिरीरिच इतिवचनमत्रातीव कठिनमतिविस्तृतं प्रायश्चित्तमस्तोत्यतः सावधानताऽत्राऽऽवश्यकोतिज्ञापनार्थम् । भैषार्थ स्पष्टयति-

अच्छावाकचमसमुख्याꣳश्चमसानुन्नयति सर्वꣳ राजानमुन्नयति नातिरेचयति ।

स्पष्टोऽर्थः।

दशाभिः कलशौ मृष्ट्वा न्युब्जति ।

दशाभिः पवित्रदशाभिः कलशौ पूतभृट्रोणकलशी मृवा शुष्की कृत्वा न्युजति न्यग्विलौ करोति । A ११.