सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०२ सत्याषाढविरचितं श्रौतसूत्रं- [(अष्टमप्रश्नेऽष्टमः पटलः]

अच्छावाकचमसे ग्रहसंपातमवनयति न प्रतिप्रस्थाता भक्षयति ।

मतव्याख्यानं पूर्वत्र ।

अग्निः प्रातःसवने पात्वस्मानिति सꣳस्थिते जुहोति ।

सवनाहुतिमित्यापम्तम्बः । सवनसंस्थापयुक्तयमाहुतिरिति संस्थाप्रयुक्तत्वमेतदाहुतेदै- पति । तेन सोमातिरेके सति तत्प्रायश्चित्तान्ते जुहोति । प्रायश्चित्तान्यपि अग्निं नर इत्यादीनि सोमस्कन्दनप्रायश्चित्तानि च प्राक्सवनाहुतेः कार्याणि ।

प्रशास्तः प्रसुवेति संप्रेष्यति ।

प्रसुव सदोबहिनिःसरणार्थ सर्वेभ्योऽनुज्ञा देहीत्यर्थः ।

सर्पतेत्याह प्रशास्ता।

स सतत्याहेति तच्छब्देनैव प्रशास्तृपरामर्श सिद्धेऽध्वयोरनुज्ञायाचनार्थकौषे प्रशास्तृग्रहणं विना प्रसुवेत्येतावदुच्यमानेऽपि प्रशास्तारं जानीयात्प्रेष्यमिति पक्षा. न्तरं गमयति । अत्राऽऽपस्तम्बः-येन प्रसन्ति तेन निःसर्पन्तीति । ते येन पथा पूर्व प्रसुप्ता ऋत्विजस्तेनैव गच्छन्तीत्यर्थः ।

संतिष्ठते प्रातःसवनं प्रातःसवनम् ॥ २४ ॥

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्नेऽष्टमः पटलः । - पष्टम् । द्विरुक्तिः प्रश्नसमाप्तिद्योतनार्था । इत्योकोपाहभीमदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया जिद्विसाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसू. त्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमम. नस्याष्टमः पटलः ॥८॥

संपूर्णोऽयमष्टमः प्रश्नः ।