सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९० सत्याषातविरचितं श्रौतसूत्र- [ (अष्टमप्रमे

तेन न समं भक्षयति।

मानिमित्ते सत्यपि वचनादध्वयोर्भक्षनिवृत्तिः ।

नास्मिन्नुपहवमिच्छते ।

अस्मिन्नध्वर्यावच्छावाक उपहवं नेच्छते ।

यद्यस्मिन्नुपहवमिच्छेत भक्षयेत्येव ब्रूयात ।

यदि अस्मिन्नध्वविच्छावाक उपहवविच्छेत तदाऽध्वर्युभक्षयेत्येव पानोप- हून इति ।

भक्षिताप्यायितमन्तरा नेष्टुराग्नीध्रस्य च चमसौ सादयति ।

उपहवनिषेधादुपहनाभावेऽनुराहतेन सोमो न पातम्य इति निषेधेन मक्षस्यैवा. मावप्रसक्तौ तवन्धित्वेनाऽऽध्यायनस्यामाप्रपती शिवारणार्थमिदं भक्षिता- म्यायितवचनम् । मशिनाप्पायितमच्छावाकेन स्वचम नेष्टुग्नं धस्य च चमसावन्त- तयोश्चमप्तयोमध्ये सादयति । क्रमप्राप्तं तस्य तदेव स्थ नमिति भावः ।

एतदेवात ऊर्ध्वमच्छावाकचमसस्य स्थानम् ॥२०॥

इति हिरण्यकेशिसूत्रेऽष्टमप्रश्ने सप्तमः पटलः ।

एतदेव स्थानमत ऊबमित आरभ्य तृतीयसानान्तम् । अन्यत्स्पष्टम् । अयम- छावाको बढच एव कार्यः । तथा चैतरंयत्रामणे-यो ब्राह्मणा बढचो वीर्यवानस्या- सोऽच्छावाकीयां कुर्यादिति । इत्योकोपाइश्रीमदमिष्टोमयाजिसाहस्राप्रियुक्तबाजपेययाजिसर्वतोमुखया- जिद्विषाहस्रामियुक्तपौण्डरीकया जिगणेशदीक्षिततनूजगोपीनाथ. दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकेशिसू. प्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमप्र- नस्य सप्तमः पटलः ॥ ७॥

8.8 अथाष्टमप्रश्नेऽष्टमः पटलः।

ऋतुग्रहैः प्रचरतो द्वादशभिस्त्रयोदशभिश्चतुर्दशभिर्वा द्वादशसु सर्वान्नाना जुहुतस्त्रयोदशस्वन्यतरौ सह चतुर्दशसु सह प्रथमौ सहोत्तमौ ।


१.स.इ. भक्षयन्ति । एक.ग..."चितानन्त