पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स०पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् ।

तान्दक्षिणस्य हविर्धानस्य पश्चादक्षमुदगायतान्सादयत्यन्तरा नेष्टुराग्नीध्रस्य च चमसौ सादयति ।

तान्नाराशंसान् । अन्यत्स्पष्टम् । नेष्टुराग्नीघ्रस्य च चमप्तावन्तरा सादयति । अत्रान्तराशब्दोऽन्तरालविशिष्टपरो लक्षणया । इदं च वैशिष्टयं नेष्ट्राग्नीध्रचमसनि. छम् । अन्तरान्तरेणयुक्त इति द्वितीया ।

उपविशत्यच्छावाकोऽग्रेण स्वं धिष्णियं बहिःसदसम् ।

अग्रेण स्वं धिष्णियं बहिःसदसमित्यनेनैनयर्थः सदोबहिःप्रदेशपर्यन्तमेवात्र वचन नादृह्यते ।

तस्मै पुरोडाशशकलमादददाहाच्छावाक वदस्व यत्ते वाद्यमिति ।

आददादित्येव पाठः । आदधदिति प्रमादपाठः । प्रयच्छन्निति तदर्थः। अच्छा- वाक यत्ते वाद्य वक्तुं योग्यं तद्वदस्वेति ।

उपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमित्यच्छावाकेनोच्यमानेऽच्छावाको वा अयमुपहवमिच्छते तꣳ होतरुपह्वयस्वेति संप्रेष्यति ।

होतारं संप्रेष्यति । औषे होतृशब्दश्रवणात् । अत्रत्रैषशब्देनाऽऽवेदनमुच्यते ।

यत्रैनꣳ होत्रोपहूयमानं जानाति तस्मिन्कालेऽच्छावाकचमसमादायोन्नीयमानायानुब्रूहीति संप्रेष्यति ।

यत्र यस्मिन्काल एनमच्छावाक होत्रोत नो गाव उपडूता उपहूत इत्यनेन मन्त्रेणोपह्यमानमध्वर्युर्नानाति तस्मिन्कालेऽच्छावाकचमसं गृहीत्वोन्नीयमानायानु- बृहीत्यच्छावाकं संप्रेष्यति । अत्रोन्नयनकर्ता तदीयचमसाध्वयुरेव नोन्नता । उक्तं पाऽऽपस्तम्बेनोनीयमानायाह्यच्छावाकस्य चमसाध्वर्यो उन्नयस्वोभयतःशुक्रं कुरु- ध्वेति प्रैषमुखेनै( गै) । तेनोन्नेतुरुन्नयनकर्तृत्वमन्त्रं न भवति । परिप्लवया द्रोणक- छशादपस्तीर्य पूतमत उन्नीय द्रोणकलशादभिधारयति सर्वचमसानामेष कल्प इति- सूत्रादयं विधिरस्पिश्चमसेऽपि ।

तस्मिन्परिहितेऽच्छावाक यजेति संप्रेष्यति वषट्कृते जुहोत्यनुवषट्कृते हुत्वा हरति भक्षम् ।

अच्छावाकेन तस्मिन्नुन्नीयमानसूक्ते परिहिते सति । आश्रावणप्रत्याश्रावणा- दिक सौमिकपरिमाषासूत्रतः । अन्यस्पष्टम् । 1. ज. स. म. द. 'दया।