पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६८ सत्याषाढविरचितं श्रौतसूत्र- [ (भष्टमप्र-

वायव इन्द्रवायुभ्यामनुब्रूहि वायव इन्द्रवायुभ्यां प्रेष्येते संप्रेष्यति ।

पृष्टयाया उत्तरत एव पुरोनुवाक्याप्रैषः । स चाध्वयोरेव, एकवचनात् । सहिर- ण्येन प्रामुखस्तिष्ठन्दक्षिणार्धपूर्वार्धे जुहोत्युत्तरार्धपूर्वार्ध वेतिपरिभाषया प्राङ्मुखता तिष्ठत्ता चोपयोः । तेन पृष्ठ्यादक्षिणतोऽपरेणाग्निं तिष्ठम्यां प्राङ्मुखाभ्यां होमः कर्तव्य इति सिद्धं भवति । दक्षिणतोऽपर्युरुत्तरतः प्रतिप्रस्थाता पृमाया दक्षिणः एव ।

वषट्कृते जुहुत: पुनर्वषट्कृते जुहुतः।

सष्टम् ।

अध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवनयति तस्यैकदेशमध्वर्युः प्रतिप्रस्थातुः पात्रे ।

संपातमवनयतीति वचनात्प्रतिप्रस्थात्रा स्वल्पमकनयनं कर्तव्यम् । एकदेशमवन- यतीति वचनादध्वर्युणाऽधिकमवनयनं कर्तव्यम् । प्रतिप्रस्थातुः स्वपावनय नमादिस्य- स्पास्यां सोमस्य कार्यवाहत्यानुरोधेन । अवोरधिकारनयनं भक्षकार्यस्य स्वरूपत्वा. नुरोधेनेति द्रष्टव्यम् ।

देवेभ्यस्त्वेत्यादित्यस्थाल्यां प्रतिप्रस्थाता संपातमवनयति ॥ १५ ॥

अत्र संपातशब्दस्य स्वरूपशेषपरत्वे प्रतिपस्थातुः पात्रे भूयसोऽवशिष्टत्वेन संपा- तशब्दप्रवृत्त्यसंगतत्वापत्तेः । अतोऽयमर्थ:-संपात्य संपात्यावनयनं कर्तव्यमिति । फलमत्रादृष्टमेव ।

विष्णवुरुक्रमेत्यपिदधाति ।

पूर्वसूत्रात्प्रतिप्रस्थातृशब्दो पचनविपरिणामेनाऽऽदित्यस्थालौशब्दश्वानुवर्तते । उप. स्थितत्वादादित्यपात्रेणैवाविधानम् । एतत्सर्वमापस्तम्बेन स्पष्टमुक्तं विष्णवुरुकमैष से सोमस्त रक्षस्वेत्यादित्यपात्रेण प्रतिप्रस्थाताऽऽदित्यस्थालीमपिदधातीति । अर्थ मन्त्र आपस्तम्भेनान्तिमेऽपिधाने विनियुक्तो यथा तथा नास्माकम् । अस्माकं तु सन- पिधानेषु सूत्रकृता विनियुक्त इत्येतावान्विशेषः । माऽवल्यदिति मन्त्रान्तः ।

मयि वसुः पुरो वसुरित्यध्वर्युर्होत्रे भक्षं प्रयच्छति ।

ग्रहपात्रस्थावशिष्टताम[स्प] भक्षणीयत्वागतसंज्ञा । अध्वर्युग्रहणं प्रतिप्रस्थातृनिक त्यर्थम् । वाचं में पाहीति मन्त्रान्तः । अत्र विशेषमाहाऽऽपस्तम्बः-प्रहमयुरादाय क्षिप्र होतारमतिद्वत्य माथि वसुः पुरो वसुरिति ग्रह होने प्रच्छनीति ।

तेनैव होता प्रतिगृह्णाति ।

एतच याजुषहौत्र शेयम् ।