सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः]. गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ८६७ कथमित्याकाङ्क्षायामाह-

उपयामगृहीतोऽसि वायव इन्द्रवायुभ्यां त्वेत्येन्द्रवायवस्यैकदेशमादित्यपात्रेण प्रतिप्रस्थाता प्रतिनिर्ग्राह्यं गृह्णाति ।

आदित्यपात्रेणेति तृतीया सप्तम्यर्थे । आदित्यपात्रेणैन्द्रवायवपात्रगतसोमैकदेशन- हणासंभवेन करणार्थकत्वासंभवात् । पूर्वस्य प्रतिरूपतया निकृष्य गृह्यत इति प्रतिनि- ग्रामस्तं गृह्णातीत्यर्थः । प्रतिनिह्यमिति पाठेऽपि अर्थः स एव ।

उपयामगृहीतोऽसि वाऽक्षसदसीति च द्रोणकलशाद्द्द्वितीयम् ।।

उपयामगृहीतोऽसि वाऽक्षसदसीति मन्त्रेण तस्मिन्नेव द्रोणकलशाद्वितीय प्रति- निग्राह्यं निगृह्य निगृह्य गृह्णातीत्यर्थः । नस्त्वर्थे वा । प्रतिरूपतया नितरां गृह्यत इत्यत्र प्रतिनिग्राह्यशब्दार्थो ज्ञेयः सर्वत्र प्रतिनिग्र ह्यशब्दो णमुलन्तो ज्ञेयः । तेन यथासंभवं पौनःपुन्यं ग्रहणे सिद्धम् । परिप्तवया ग्रहणम् । अध्यक्षाम्यां गृहामीति मन्त्रान्तः।

ऐन्द्रवायवमध्वर्युरादत्ते द्रोणकलशाच्च परिप्लवया राजानं प्रतिनिग्राह्यं प्रतिप्रस्थाता ।

द्रोणकलशात्परिश्लवया रामानं चेत्यन्वयः । चः समुच्चये । प्रतिनिग्राह्यमहोत्तर. मादानवचनादेवं ज्ञायते स्वस्थानस्थितस्यैवैन्द्रवायवस्यैकदेशग्रहणमिति । द्रोणकलशाच परिप्लवया राजानमित्यत्राऽऽदत्त इत्यनुवर्तते । प्रतिनिग्राह्यं प्रतिप्रस्थातत्यत्राप्यादत्त इत्यतस्यानुवृत्तिः । आदानवचनबलादासादनमप्पस्तौति गम्यते । तच्च मन्त्राभावात्तू . कामेव । दशापवित्रेण संमार्गोऽपि भवति । सर्वग्रहाणां परिमार्जनमिति सूत्रात् ।

उपनिष्क्रम्याध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाऽऽघारयति यथोपाꣳशुर्हुतो भवति ।

उपनिष्क्रम्येत्यत्र हविर्धानादिति शेषः । उपनिष्क्रम्येति वचनमुपनिष्क्रमणान्य. वधानेनाऽऽधारसिद्धयर्थम् । परिप्लवयाऽऽधारयतीत्यत्राध्वर्युरित्येव शेषः । आधारार्थ- राज्ञोऽध्वर्युगैवाऽऽत्तत्वेनार्थादेवाध्वर्योः प्राप्तत्वात् । एतेन प्रतिप्रस्थातुः संनिहितत्वे. नानुवृत्तिर्वारिता मवति । परिप्लवयाऽऽघारयतीति वचनं परिप्लवया राज्ञो ग्रहणं व्याघारणार्थचमसे तेन चमसेनाऽऽघारणमिति स्यात्तन्मा भूदित्येतदर्थम् । यथा येन प्रकारेणोपाशुरुषांशुग्रहो हुतो भवति तेन प्रकारेणाऽऽयारयतीत्यर्थः । स च प्रकार उत्तरपरिधिधिमन्ववत्येत्यादिः संततं जुहोतीत्यन्तः । स्वाहा वा सुभवः सूर्यायेति मनस्तु वैशेषिकेणाध्वरो यज्ञ इति मन्त्रेण बाध्यते ।

  • प्रतिनिमाध्यमिति पाठो ज्ञेयः ।

१न, निष्कृय । १. रु. ज. स. न. तु. 'निर्णायं ।