सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ६षमटकः] गोपीनाथमट्टकृतज्योत्स्नाब्याख्यासमेतम् । ८६९

एवमुत्तराभ्यां यथादैवतं प्रचरतः ।

उत्तराम्यामित्यनन्तरं ग्रहाम्यामिति शेषः । उत्तरी क्षेत्रावरुणाश्विनी । यादैवत- मिति वचनमतिदेशान्मित्रावरुणाभ्यामनुब्रूहि मित्रावरुणाभ्यां प्रेष्यति प्रैपयोः प्राप्तिः स्यात्तां वारयितुम् ।

नोत्तरयोर्द्रोणकलशाद्गृह्णाति नोत्तरयोराघारो विद्यते ।

नोत्तरयोर्दोणकलशालातीत्यनेन प्रतिनिग्राह्यग्रहणं व्यावय॑ते । आषारोऽध्वरो यज्ञोऽयमस्तु देवा इतीतरयोहयोर्न विद्यत इत्यर्थः ।

उत्तरेणोत्तरेण मन्त्रेण सकृद्गृह्णाति सकृज्जुहुतः ।

सकृद्ग्रहण उत्तरोत्तरो मन्त्र उपयामगृहीवोऽस्यूतप्तदसि । उमयामगृहीतोसि श्रुतसदसति । सकृज्जुहुत इति वचनमेवमुत्तराम्यामित्यनेन पुनर्वषट्कारे होमस्य प्राप्तस्य निवृत्त्यर्थम् ।

उत्तरेणोत्तरेणाऽऽदित्यस्थाल्यां प्रतिप्रस्थाता संपातमवनयति तेनैव सर्वत्रापिदधाति ।

संपातावनयन उत्तरोत्तरो मन्त्री विश्वदेवेभ्यस्त्वा विश्वेभ्यस्त्वा पेभ्य इति । विष्णवरुकमेत्येतेनैवापिदधाति । आपस्तम्बेनान्तिमेऽपिधानेऽयं मन्नस्तयावृत्त्यर्थमेव- कारः । सर्वत्रोमयत्रेत्यर्थः ।

उत्तरेणोत्तरेणाध्वर्युर्होत्रे भक्षं प्रयच्छत्येतेनैव होता प्रतिगृह्णाति ।

मक्षप्रदान उत्तरोत्तरो मन्त्रो मथि वसुर्विदद्वपुरिति मयि वसुः संयद्वारेति ।

दितेः पुत्राणामदितेरकारिषमुरुशर्मणां बृहतां वरूथिनाम् । येषां धामानि निहितानि धामशश्चित्रैर्यजन्ति भुवनानि विश्वेति वा सर्वत्रापिदधाति ।

सष्टम् । काम्यं करुपमाह-

यदि कामयेत पापमस्य सꣳस्यादिति प्रतिप्रस्थानेन पूर्वो गृहीत्वा पूर्वस्तिष्ठञ्जुहुयात्पूर्वो हुत्वा सादयेत् ।

यदिशब्दावनमानगतेयं कामना । अस्य देवदत्तस्य द्वेष्यस्य पापं सम्यकस्यादिति यदि यनमानः कामयेत तदा-प्रतिप्रस्थानं प्रतिप्रस्थातुः पात्रं तेन तानि त्रीणि वाय- व्यानि पात्रसादनकाले खरे प्रयुज्यन्ते द्विदेवत्यग्रहणकाले पूर्वः पूर्वोऽध्वयोणिकल. शास्प्रतिनिग्राह्यमन्त्रेणेव गृहीत्वा पूर्वस्तिष्ठजुहुयात्ततो होमानन्तरं संपातमवनीय I १. ज. स. इ. विहितानि । १.