सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । रब्धानां मध्येऽपच्छेदो न भवेत् । समन्वारब्धानां सर्पतामुद्गाताऽपच्छियेत पज्ञेन यजमानो व्युध्येतादक्षिणः स यज्ञक्रतुः संस्थाप्योऽधान्य आहृत्यस्तत्र तद्दद्याद्यत्पूर्व- स्मिन्दास्यन्स्यात्त एनमृत्त्विनो याजयेयुरित्यादिप्रायश्चित्तश्रवणात्। ब्रह्मयजमानापच्छेरे विशेषप्रायश्चित्तस्यानुक्तेरनुद्रवणविशिष्टयज्ञतनूहोमात्मकसामान्यप्रायश्चित्तमेव । तथा चैतयोरपि सम्यगन्वारम्भः ।

अध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानो यजमानं ब्रह्मेत्येकेषाम् ।

पूर्वसूत्रे सामान्यतः समन्वारभन्त इत्युक्तं तत्र के समन्वारभन्त इत्याकाङ्क्षाया- मिदं सूत्रम् । ननु अध्वर्यु प्रस्तोताऽन्वारभते तं प्रतिहर्ता तमुद्गाता तं ब्रह्मा तं यन. मानो यजमानं ब्रह्मेत्येकेषामिति तस्य तस्य तच्छब्देनैव ग्रहणसिद्धी पुनर्निर्देशो व्यर्थः । नायं व्यर्थः । एवमुच्यमाने तच्छब्दस्य सर्वनामत्वेन मुख्यपरामर्शित्वान्मुखतःप्रवृत्त- त्वरूपमुख्यत्वमादायाध्वर्योरेव परामर्श इत्यपि स्यात्तद्व्यवच्छेदाय पुननिर्देश आवश्यक इति चेदध्वर्यु प्रस्तोतृप्रतिहर्बुद्गातृब्रह्मयजमाना अन्वारभन्त इत्येतादृशेन लघुसूत्रेणे. वाध्वर्युपरामर्शसिद्धौ पुनर्निर्देशस्यानावश्यकत्वस्यैव सिद्धत्वेन वैयर्थस्य तदवस्थत्वा- दिति चेत्सत्यम् । तथा सत्येककालेऽपि अन्वारम्भः स्यात्तद्वारणार्थमवश्यमपेक्षितत्वेन वैयर्थ्याभावात् । एवं चाध्वर्युपरामर्शवारणार्थ पुनर्निर्देश आवश्यक एवेति सुस्थम् । अध्वर्यु निष्कामन्तं प्रस्तोता संतनुयात्तमुद्गातोद्गातारं प्रतिहर्ता तं ब्रह्मा ब्रह्माणं यजमान इति च्छन्दोगोक्तः क्रमः । अन्वक्छन्दोगान्मत्रावरुणो ब्रह्मा च नित्याविति आश्वलायनोक्तः प्रशास्ता चापि निवारितो भवति । पुनरन्वारभत इति वचनमनुवादः। अथ वा निःसर्पन्तः समन्वारमन्त इति स्वतन्त्रों विधिरितिज्ञापनायतद्वचनम् । के समन्वारभन्त इति आकाक्षापूरणाय पवमानसंबन्धिन इति शेषः । तथा च च्छन्दो- गोक्तः क्रम आश्वलायनोक्तः प्रशास्ताऽपि सर्पणे लब्धो भवति । स च च्छन्दोगेभ्यः पश्चात् । अन्वक्छन्दोगान्मत्रावरुणो ब्रह्मा च नित्यावित्याश्वलायनसूत्रात् । उत्तरसू. त्रोक्तः क्रमस्तु स्वतन्त्रतया पक्षान्तराभिप्रायक एव । अत एव केवलमन्वारभत इति शब्दान्तरं प्रयुक्तम् । अस्मिन्कल्पेऽपि अन्वारम्भे दृढत्वमस्त्येव । अपच्छेदे. प्रायश्चित्तश्रवणात् । उभयकल्पेऽप्यन्वारम्भो दक्षिणहस्तेनैव । अन्वारम्भस्यैव प्रथमो. पस्थितत्वेन मुख्यत्वात् । मुख्ये मुख्यदक्षिणहस्तसंबन्धस्यैव युक्तत्वात् । यस्मिन्नन्वा- रम्मे दाढय स द्विविधो विशिष्टः केवलो वा । दक्षिणहस्तकृत एव चेदवारम्भो विवक्षितस्तदा विशिष्टान्वारम्भः । एतदन्वारम्भम्वीकारे सव्यहस्तेनैव सर्पणार्थहोमः । १०७