सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्यापाठविरचितं श्रौतसूत्र- अष्टमप्रो- इस्यतिदेशादेव माध्यदिनप्तवनसिद्धेस्तृतो यसपने तस्य , माध्यदिनसकनेन कस्पो भ्याख्यात इति प्रातःसवनातिदेशवमाध्यंदिनसवनातिदेशासिद्धेरिति चेन्न । पूतभूति भाधवनायकदेशावन पने तिर पवित्रताया अनावश्यकताद्योतनार्थत्वेन सार्थक्यात् । ताहि पूतभृतः पूतभृत्त्वसंज्ञाया अनुपपत्तिरिति चेत् । उच्यते-न हि वयमपूतसोमाव- भयन बमो येनेयमनुपपत्तिर्भवेकि तु आधनीयस्थलोमैकदेशं तिरःपवित्रं पात्रान्तरेऽ. वनीय तं पूतं सोमं तेन पात्रेणानन्तहितपवित्र एव पूनभृत्यवनयतीत्येवं ब्रूम इति भवेहि । एवं च सूत्रं सप्रयोजन पूनमृत्तसंज्ञाया अपि नानुपपत्तिरिति सुस्थम् ।

पवमानग्रहान्गृह्णाति ।

पवमानस्य ग्रहाः पवमानग्रहाः। ते चोत्तरसूत्रे वक्ष्यन्ते तान्गृह्णातीत्यर्थः । इयं च संज्ञा पवमानग्रहान्कलशाग्छुकामन्धिनावाग्रयणमुक्थ्यं च ग्रहावकाशैरुपस्थायेत्यादी संप्रत्ययार्या । पवमानस्य ग्रहाः पवमानमहा इत्येतादृश एव समासः । पवमानग्रहान- गृहीत्वा पवमानोपाकरणे दोषश्च ब्राह्मणे प्रदर्शितः-पवमानस्य ग्रहा गृह्यन्तेऽथ वा भस्य ते गृहीता द्रोणकलश आधवनीयः. पूनमृत्तान्यदगृहीत्वोपाकुर्यात्पवमानं विच्छि. न्यात्तं विच्छिद्यमानमध्वयोः प्राणोऽनु विच्छिद्यतेति ।

उपयामगृहीतोऽसि प्रजापतये त्वेति द्रोणकलशमभिमृशेदिन्द्राय त्वेत्याधवनीयं विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम् ।

उत्तरयोरप्युपयामगृहोतोऽमीत्यनुवर्तते । तथा चाऽऽपस्तम्बः स्पष्ट माह-पुरस्ता. दुपयामाः सर्व इति । प्रथमवदुत्तरयोरप्युपयामानुषङ्ग इति भावः । एतैर्मन्त्रैरमिमर्शन- मेवात्र ग्रहणम् । अत एव सादनमपि न । एतैरभिमर्शने पूर्वोक्तदोषौ न भवतः पशु- प्रनालाभश्च परं भवतीति । तथा च ब्राह्मणम्-उपयामगृहीतोऽसि प्रजापतये स्वेति द्रोणकलशमभिमृशेदिन्द्राय त्वेत्याधव नीयं विश्वेभ्यस्त्वा देवेभ्य इति पूनभृत पवमानमेव तत्संतनोति सर्वमायुरेति न पुराऽऽयुषः प्रमीयते पशुमान्भवति विन्दते प्रजामिति । मंत्र न परिमार्जनमधाराग्रहत्त्वादिति केचित् । तन्न । सर्वग्रहाणां परिमार्जनमिति सर्व- ग्रहणविरोधापत्तेः ।

निःसर्पन्तः समन्वारभन्ते ।। ११ ।।

निरित्युपतर्गोऽत्र बहिरर्थे । तथा चं बहिः सर्पन्त इत्यर्थों भवति अर्थाद्धविर्धानात् । निःसर्पन्त इति शतृप्रत्ययाहिःसर्पणप्तमकालं समन्वारम्मः । कमेणायमन्वारम्भो न त्वेकदाऽसंभवात् । निःसन्त इति प्रस्तोत्रादीनां विशेषणम् । अध्वर्योऽस्तु न । समन्वारम्यस्यान्यस्यैवाभावात् । संशब्दोऽन्वारने दावमात्रष्टे यथा सर्पता समन्वा-