सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाठविरचितं श्रौतसूत्र- [अष्ठमप्र- केवलान्वारम्भस्वीकार आदौ प्रथम सर्पणार्यान्वारम्भस्यैवोपस्थितत्वेन मुख्यत्वाम्मुख्येन दक्षिणेन. हस्तेनैवान्वारम्ममात्रं कृत्वा होमकाले दक्षिणहस्तकृतान्वारम्भे सत्येक सव्यहस्तेन हडमन्वारम्भं कृत्वा दक्षिणहस्तकृतान्वारम्भं विसृज्य दक्षिणहस्तेनेव सर्पणार्थ होर्म कृत्वा सव्यहस्तकृतान्वारम्भे सत्येव दक्षिणहस्तेन दृढमन्वारम्भं कृत्वा सव्यहस्तान्वारम्भ विसृज्य गायत्रः पन्था इत्यादि । प्रथमपक्ष एवं सुगमः । उभयप- क्षेऽपि अपच्छे दो नैव यथा भवति तथा सावधानेन कर्तव्यम् । तत्र दक्षिणहस्तस्य मुख्यत्वमेकाङ्गवचने दक्षिणं प्रतीयादनादेश इत्याश्वलायनवचनात् ।

यत्रोपदिश्यते कर्म कर्तुरई न तूच्यते ।

दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥

इतिच्छन्दोगपरिशिष्टाश्च । ब्रह्माणं यनमानो. विपरीत वेत्येवमुच्यमाने सर्वेषा वैपरीत्यं स्यात्तन्मा भूदित्येतदर्थ यजमानं ब्रह्मेत्येकेषामित्येवं वचनम् ।

निःसृप्य यस्ते द्रप्सः स्कन्दतीति तिस्त्रो यस्ते द्रप्सः स्कन्दति यस्ते अꣳशुः स्वः परश्च यो दिवा पुरः। अयं देवो बृहस्पतिः सं तत्सिञ्चतु राधसेति वैप्रुषान्सप्त- होतारं च हुत्वोदञ्चः प्रह्वा बहिष्पवमानाय सर्पन्ति ।

निःसृप्येतिवचनं कालाव्यवधानार्थम् । तेनोद्गातृभिः स्वसूत्रोक्तो होमः पूर्वमेव कर्तव्यो नतु मध्य इति । समानकर्तृक]त्वार्थ च । तेन ये निःसर्पणकर्तारस्ते वैषसप्त- होतृहोमकतारस्त एव च बहिष्पवमानार्थकतर्पणकार इति । मन्त्रयग्रहणार्थ तिस इति । शक्त्वज्ञानाय स्त्रीलिङ्गनिर्देशः । जुहोम्यन्तास्त्रयो मन्त्राः । चतुर्थः सौत्रः । वैपुषानित्यनन्तरं होमानिति शेषः । स्कन्नानां विभुषां देवत्राकरणार्या वैद्घषा नामैते होमाश्चत्वारः । सप्तहोताऽत्र होमार्थत्वात्सग्रहः । मनमाऽनुद्रुत्येतिवचनाभावात्सवन- खर एवात्र । आपस्तम्बस्तु मनसाऽनुदुत्येत्यत्रापि पठितवान् । सप्तहोतारमित्यत्र घकारोऽपभ्रष्टो द्रष्टव्यः । हुत्वा सर्पन्तीत्यन्वयात्रप्स्यतां सर्वेषामेव होमः । एतेन वैनुषान्होमा हत्यध्वर्युति कात्यायनोक्तं पक्षान्तरं निरस्तं द्रष्टव्यम् । मैत्रावरुणस्य सर्पणपक्षे तस्याप्येवमेव । सामशाखिनि यजमान उद्गातृभिब्रह्मणा च स्वसूत्रोक्तरीत्यैव होमः कर्तव्यो न त्वध्वर्युसूत्रोक्तरीत्याऽपि । क्शाखिनि यजमाने ब्रह्मणोद्गातृभिश्च स्वसूत्रोक्तरीत्येव होमः कर्तव्यः । मैत्रावरुणतर्पणपक्षे तेनाप्येवमेव नत्वध्वर्युसूत्रो. क्तरीत्याऽपि । सामशाखिनकाखिना वाऽपि यजमानेन सत्यापासूत्रानुसारेणानुष्ठाने क्रियमाणे होमद्वयमुद्गातृब्रह्मयजमानैमैंत्रावरुणेन च कर्तव्यम् । अध्वर्युणा तु सर्वत्रा- तु क.म. ग, तारर हु।