सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० पटकः] ' गोपीनाथमहकृतज्योत्साव्याख्यासमेतम् ।

अस्मै ब्रह्मणे पवतेऽस्मै क्षत्त्राय पवतेऽस्मै सुन्वते यजमानाय पवत इष ऊर्जे पवतेऽद्भ्य ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते ब्रह्मवर्चसाय पवते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवत इति सोममभिमन्त्र्य वाचं विसृजते ।

सोम गृहीतम् । अभिमन्त्रणाव्यवहितोत्तरमेव वाचं विसृजते । ततः एष ते। योनि. विश्वेम्पत्वा देवेभ्य इति सादनम् । वाचे विसृजत इत्यनेन वाग्विसृष्टा मयेति भावना कर्तव्यति बोधयते न तु पानिमम सर्वथा भाषण मध्ये कर्तव्यमिति । भाग्यण- निर्वचनं श्रुती-वाग्वे देवेभ्योऽपाकामज्ञायातिष्ठमाना ते देवा वाच्यपक्रान्ताया तूष्णीं महानगृह्णन साऽमन्यत वागम्तयन्ति में मेति साऽऽअयणं प्रत्यागच्छत्तदारयण: स्याऽऽनयणत्वमिति ।

अतिग्राह्यान्गृह्णाति ।

असिग्रामसंज्ञकाम हान्गृहातीत्यर्थः । सामान्यप्रतिज्ञेयम् । इयं च प्रतिज्ञा सूत्रा- न्तरोक्तपाक्षिकत्वव्यावृत्त्यर्था । न चोकथ्ये गृहीयाविश्वजिति सर्वपृष्ठे ग्रहीतच्या इति विशेषवचनं यद्विषये तत्रैव नान्यासु विकृतिष्वतिदेशः, अन्यथोकथ्ये गृह्णीयाद्विश्वनिति सर्वपृष्ठे महीतल्या इत्युभयत्रैवातिदेशः कृतो व्यर्थः स्यात् । मग्निष्टोमे तु ग्रहीतच्या इति वाक्यं तु नियतत्त्वार्थमपेक्षत एवेति वाच्यम् । गुणकामप्रवृत्यर्फ समानविधान- स्याऽऽवश्यकतया पुनःश्रवणस्य समानविधानात्वेनान्यत्रातिदेशनिवृत्त्यमावात् । सपा कादशाध्याये प्रथमे पादे मैमिनिः-मम्यतिमाहस्य विकृताकुपदेशादप- बृत्तिः स्यादिति।

अग्न आयूꣳषि पवस इत्याग्नेयमुत्तिष्ठन्नोजसा सहेत्यैन्द्रं तरणिर्विश्वदर्शत इति सौर्यम् ।

उपयामगृहीतोऽस्यमये त्वा तेजस्वते । एष ते योनिरमये वा तेजस्वत इत्याने पस्य ग्रहणसादने । उपयामगृहीतोऽसौन्द्राय यौनखते, एष ते योनिरिन्द्राय वौन- स्वत इत्यैन्द्रस्य । उपयामगृहीतोऽसि सूर्याय स्वा भ्रानस्वते, एष ते योनिः सूर्याप स्वा भ्रावस्वत इति सौर्यस्य । ऋगन्ते ग्रहणम् ।

ओजस्तदस्य तित्विष उभे यत्समवर्तयत् । इन्द्रश्चर्मेव रोदसी । अदृश्रमस्य केतवो वि रश्मयो जनाꣳ अनु । भ्राजन्तो अग्नयो यथेति वैताभ्याम् ।

१.ग.वाक्ये।