पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३८. सत्यापाठविरचितं भीतसूत्र- [अष्टपप्रमे- अनेन ज्ञायत उपांसुपात्रस्य चिलं विस्तीर्ण निम्नतरं चेति । स्वमपि ज्ञायतेऽर्धस्व होमोऽर्धस्य स्थास्यामवनयनामिति । एकदेशचतुर्थीशरूपः । अन्यस्मिन्यस्मिन्कस्मिधि- पात्रे निषियमावयित्वा तेन द्वितीयां धारां करोतीत्यर्थः ।

विदद्यती सरमा रुग्णमद्रेर्महि पाथः पूर्व्यꣳ सध्रियक्कः । अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गादिति पुरोरुचमभिचरतः कुर्यात् ।

उपयोगमन्त्रात्मागुच्यते यतस्याः पुरोगिति संज्ञा । यत्रामिधारनिमित्ते प्रह- महणे विशेषभूताया मचो ग्रहणं क्रियते तत्र पुरोरुगिति संज्ञयोपादानम् । दृष्टे त. अनुतावमिनमायस्पोक्थ्याग्रतायाम्-उक्थ्यानान्गृह्णीताभिचर्यमाणः सर्वेषां वा एतस्पा- प्राणामिन्द्रियं पदुक्थ्यपात्र र सर्वेणैवैनमिन्द्रियेणातिप्रयुके सरस्वत्यभिनोनेषिवस्य इति पुरोरुवं कुर्याद्वान् सरस्वती वाचैवेनमतिपयुक्त मा त्वक्षेत्राण्यरणानि गन्मेत्याह मृत्यो क्षेत्राण्यरणानि सेनैव मृत्योः क्षेत्राणि न गच्छत्तीति । मंभिचरतीत्यभिचरंस्त- स्थाभिचरतो द्वेष्यमुद्दिश्याभिचारं कुर्वतः । एतादृशस्य यनमानस्येमा पुरोरुचं कुर्यात् । रुग्णवत्पवघटितत्वादिति पावः । भत्र श्रुतावृपयामपाठामावादुपयामेनैव प्रहणं नर्गन्त इति द्रष्टव्यम् ।

त्रिꣳशत्त्रयश्चेति भ्रातृव्यवतः ।

भातृव्यः पात्रस्तद्वतः । पूर्वः कल्पस्तस्यैवापकाराय । अयं तु तस्कृतापकारपती. कारायेति भेदः । अत्राऽऽअयणोऽतीत्ययमुपरिष्टादुपयामस्यैव शेषः । पूर्ववद्विकल्पयो- धकपदाभावात् । आमयणोऽसौत्यस्मिन्मने भ्रातृव्यकर्तृकापकारप्रतीकारबोधकपदामा- वेन तदुपयोगासंभवाच । सादनमन्त्रः पूर्ववदेव ।

आग्रयणं गृहीत्वा हिमिति त्रिर्हिंकरोति शनैरग्रेऽथोच्चैरथ सूच्चैः सोमः पवत इति त्रिराह शनैरग्रेऽथोच्चैरथ सूच्चैः । १० ।।

भाग्रयणं गृहीत्वेतिवचन नैमित्तिक आग्रयणग्रहण एवं वक्ष्यमाणमनिमन्त्रणान. मिति शङ्का व्यावर्तयितुम् । तेन नित्येऽपि आप्रयणग्रहण इई पत्येवेति सिद्ध भवति । हिंकारस्य हि है हामितिनानारूपत्वादिष्ट परिग्रहार्थः पाठो हिमिति । भन उच्चैरितिश्रवणाच्छनःशब्द खरे वर्तते । शनैरुचैः सूचैरितिशर्मन्द्रमध्यमनुष्टस्वरा उच्यन्ते । शनैरुच्चैः सूचरित्येताततैव हिकारत्रयस्य स्वरत्रये लब्धेऽप्रशब्दोऽयशब्द- द्वयं चेदं ज्ञापयति प्रथमं त्रिः शनैरनन्तरमेवोच्चैस्तदनन्तरमेव सूचरिति न तु एकवारं शनैस्तत उस्ततः सूचरित्येतादृशक्रमेणेति । एतेना प्रतिस्वरं निरावृत्तिरपि सिद्धा भवति । सुषः सूरुरपेक्षपा सुप्लुता । सोमः परत इत्यत्राप्येवमेव द्रष्टव्यम् ।