सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६१ ३ तृपटलः ] गोपीनाथमट्टकृतज्योत्मान्याख्यासमेतम् ।

अग्नीन्मदन्त्याऽऽपा ३ इति पृच्छति ।

किमापो मदन्त्य उष्णीभूता आपः किमित्याग्नीधे प्रति प्रश्नः । मदन्तीशब्दोऽप्सु तप्ततामाचष्टे । मदन्त्य आपा इत्यपेक्षिते मदन्त्याऽऽपा ३ इति संधिरार्षः । प्रश्ने तुतिः । अत एवावगम्यते पूर्वमग्नीघाऽऽपोऽधिश्रिता इति । तत्कालस्तु प्रागेव दर्शितः । परप्रत्यायनार्थत्त्वादुच्चैस्त्वम् ।

मदन्ति देवीरमृता ऋतावृध इत्याग्नीध्रः प्रत्याह ।

देवीदेव्यः स्वच्छा अमृता अमृततुल्या ऋतावृधः । अतं मानसिक सत्यं तदमिवर्ष- यन्तीत्यूतावृधः । यत्स्पर्शोऽपि मनःशुद्धिकर एतादृश्य आपो मदन्त्यः । तप्ता इति प्रत्युत्तरवाक्यार्थः । अत्रापि पूर्ववदुच्चेस्त्वम् । अग्निमिन्ध इत्यग्नीत् । तस्य गृहमानी- ध्रम् । अग्नीधः शरणे रमं चेति । शरणं गृहं तात्स्थ्यात्सोऽप्याग्नीधः । ऐष्टि- कपाशुकयोः सोमकर्मवट्टहासंभवात्स्थानमात्रं लक्षणीयं तत्स्थस्वादाग्नीधो भवति । ऐष्टि. कपाशुकयोरानीघ्रस्थानं यत्र तिष्ठन्नाश्रावयति तत् । सौमिके तु आग्नीधमण्डप एवं विहितोऽस्ति तदेव स्थानं तस्य । ऋत्विविशेषवाच्ययं शब्दः सूत्रकारैर्भत्विग्विशे- घेऽप्यानीधशब्दप्रयोगात्तदनुरोधेनानीधः शरणे रणमं चेति सूत्र(वार्तिक)स्थचकारोऽ. नुक्तसमुच्चयार्थो वक्तव्यः । तेनानुक्तस्यत्तिविशेषरूपार्थस्य संग्रहः सिद्धो भवति ।

ताभिराद्रवेति संप्रेष्यति ।

ताभिरद्भिः सह, आ समीपे द्रव, एहीत्यर्थः संप्रेषस्य । अत्रापि पूर्ववदुच्चैस्त्वं, प्रश्नवलात्सानिध्यसिद्धेर्दूरानाहानामावान्न प्लुतिः । प्रश्नस्तु सांनिध्य एव संभवति नासां- निध्य इति ज्ञेयम् ।

मदन्तीभिः पाणीन्प्रक्षालयन्ते ब्रह्मा राजानं विस्रꣳसयति ।

मदन्तीमिस्तप्तामिरद्भिः । बहुवचनात्सर्वे तान्नत्रिणः । ऋत्विगपेक्षया पाणी- निति बहुवचनम् । सः पाणिप्रक्षालने कृतेऽनन्तरं ब्रह्मा राजानं विलंसयति । वहन णाकर्मसु सदसद्विवेचनाद्ब्रह्मा । ब्रह्मा सर्वविद्यः सर्व वेदितुमर्हतीति निरुक्तात् । सर्ववित्त्वं सदसद्विवेचकत्वं, यः सर्ववित्स ब्रह्मा मवतीति निरुक्तार्थः । सर्वविदित्यस्य विवरणं सर्व वेदितुमर्हतीत्यनेन क्रियते । विस्त्रप्सनं बन्धनाद्विमोचनम् । ब्रह्मत्वविधे. रवसरख्यापनार्थमत्र वचनम् ।

अꣳशुरꣳशुरिति तꣳ सर्वे सहिरण्यैः पाणिभिराप्याययन्ति ।

सर्वे तानूनप्त्रिणः । आप्यायनलिङ्गेन मन्त्रेणाऽऽमर्शनमेवाऽऽप्यायनम् । अद्भिः सेचनमित्यन्ये । वरणक्रमेण सहैव वाऽऽप्याययन्ति । सहिरण्यैः पाणिभिरित्याप्याय. नाङ्गं पाणिषु हिरण्यधारणं विहितं भवति । ८४