पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६२ सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रश्ने-

प्रत्युपनद्धेऽप उपस्पृश्येष्टा राय इति प्रस्तरे निह्नुवते सव्यान्नीचः पाणीन्कृत्वा दक्षिणानुत्तानान् ।। ११ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने तृतीयः पटलः ।

कृत्वा निहनुवत इत्यन्वयः । सर्वैराप्यायने कृते प्रत्युपनद्धे पुनर्बद्धे राज्ञि ब्रह्मणैव परिकर्मिणेति केचित् । येन विलंसनं कृतं तेनैव बन्धनं कर्तव्यमिति ब्रह्मणेत्येव युक्तम् । सोमस्याऽऽप्यायितस्यान्तरिक्षदेवत्यत्वाच्छादनेन . द्यावापृथिवीभ्यां सव्या- नीचः पाणीन्कृत्वा दक्षिणानुत्तानानित्येवंरूपनमस्काराञ्जलिकरणं निवः । प्र वा एतेऽस्माल्लोकाच्च्यवन्त इत्युपक्रम्य द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिल्लोके प्रतिति- ष्ठन्तीति श्रुतेः । द्यावापृथिवीभ्यामेव तन्नमस्कुर्वन्त्यथो एने वर्धयन्त्येवेति वढचश्रुतेः । नमो दिवे नमः पृथिव्या इति मन्त्रलिनाच्च वचनात्प्रस्तरे निवः । न्यक्शब्दस्य द्वितीयाबहुवचनं नीच इति । अत्र केचिदुद्भातारः सुब्रह्मण्याह्वानं कुर्वन्ति केचिन्न । स्वोद्गातृवशेन कर्तव्यम् । इति श्रीमदोकोपाहाग्निष्टोमयाजिसाहस्राधियुक्तवाजपेययाजिसर्वतोमुखः याजिद्विपाइसाग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीना- थदीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशि- सूत्राम्बुधिगतनिगूढार्थरत्नालाभकृतविदजनसंता- पशामिकायां ज्योत्स्नाख्यायो वृत्तौ सप्तम- प्रश्नस्य तृतीयः पटलः ॥ ३ ॥

7.4 अथ सप्तमप्रश्ने चतुर्थः पटलः ।

प्रवर्ग्येण प्रचर्योपसदा प्रचरत्युपसदा वा प्रचर्य प्रवर्ग्येण प्रचरति ।

तत्र प्रवग्र्यो मन्त्रब्राह्मणयोरनारभ्याधीत इति सूत्रकृताऽपि स्वतन्त्र एवं व्याख्या यते । तत्र प्रभार्येण प्रचर्योपसदा प्रचरतीत्येकः पक्षोऽनुष्ठानक्रमे । उपसदा प्रचर्य प्रवर्येण प्रचरतीत्यपरः । तत्रैतद्वा विपरीतमिति लाघवेन वक्तव्ये गुरुनिर्देशप्रयोजन ग्रोवा उपसदः पुरस्तादुपसदा प्रवाई प्रवृणक्ति यत्पुरस्तादपसदं प्रवृज्यते तस्मादितः पराङमूल्लोकास्तपन्नेति यदुपरिष्टादुपसदां प्रवृज्यते तस्मादमृतोऽङिमाल्लोकास्तप- नेतीति निन्दाप्रशंसाम्यां प्रत्यक्षश्रुतिविरुद्धमिति नाऽऽशङ्कनीयं सोऽपि प्रत्यक्षभूत एवेतिज्ञापनम् । अधीयते हि माध्यंदिनः(नाः)-शिरो वा एतयज्ञस्य यत्प्रवर्यो ग्रीवा उपसद उपरिष्टादुपसदा प्रवृज्यात्तस्मादपरिष्टाग्रीवायाः शिरो भवतीति। ..