पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रभे- तानूनप्पं मवति तदा । पञ्चावत्तपक्ष एव विनियोग इति न किं तु चतुरवत्तपोऽपि चतुर्णा मन्त्राणामन्तिमेन विकल्पितो भवतीति निकृष्टोऽर्थः ।

तदनाधृष्टमसीति सर्वर्त्विजः समवमृशन्ति ।

तत् तानूननं सर्वे च त ऋत्विजश्च सर्वविजः । सर्व ऋत्विज इत्यसमस्तपाठो वा। समवमृशन्ति सहैवावमृशन्ति अवनताः सन्तो मृशन्ति स्पृशन्ति । सदस्यश्चेत्सोऽपि तानूनप्त्रमवमृशति सहैव । सर्वग्रहणं सर्वे स्वयमेवाभिमशेरनान्योऽन्यस्य प्रातिनिध्ये. नेत्येवमर्थम् । विग्रहणं चमसाध्वर्युव्यावृत्त्यर्थम् । याजुषहौत्रसत्त्वे तद्रीत्यैव होत्रा- दयः कूर्यः । आश्वलायनहोत्रसत्त्वे तदोत्या थाजुषरीत्या वा । अनभिशस्तेन्यमि- न्यन्तो मन्त्रः । तस्माद्यः सवानूनप्त्रिणां प्रथमो द्रुह्यति स आतिमाईतीति ब्राह्मणम् ।

समवमृष्टं प्रजापतौ त्वा मनसि जुहोमीति त्रिरवघ्रायान्तर्वेदि निनयति ।

समवमृष्टमिति पचनं सर्वैः समवमुत्रस्यैव तानूनप्त्रस्यावघाणं यदि कस्यचित्प्रति. बन्धेन समवमर्शो न जायते तदा तदीयसमवमर्शार्थ प्रज्ञातं तत्स्थापयित्वा तत्समवमत्तरमवघाणं कार्यम् । अनि कर्म तु कर्तव्यमेव । सर्वथा कस्यचिन्मह्ता प्रतिबन्धेन समवमर्शी नैव जायते तदा तस्याऽऽविज्यकरण एवायोग्यत्वादन्यं वृत्वा तेन समय- मर्शे कृतेऽवनाणं कर्तव्यम् । अतानूनप्त्रिणा यजमानेनस्विजा वा कर्मणि क्रियमाणे पावद्धिदिनैः क्रतुः समापनीयो भाति तावत्संख्येषु दिवसेषूपवासः कर्मसमाप्ती मनो ज्योतिरित्याहुतिश्चेति कौशिकसूत्र उक्तम् । सकृन्मन्त्रेण द्विस्तूष्णीमित्येवं त्रिः प्राश. नमिति केचित् । अन्ये तु न प्राश्नन्ति न जुह्वत्यय व तानूननं प्रतितिष्ठतीति होम- प्राशने प्रस्तुत्यावघाणविधानाज्नुहोमीति लिहाच त्रिमन्त्रेणैवावप्राणमित्याहुः । सर्व- स्यैवाऽऽज्यस्यावघाणम् ।

प्रतिषिद्धमेकेषाम्

अन्तदि निनयन प्रतिषिद्धमे केषामाचार्याणां मते । अन्तर्वेदिनिनयनप्रतिषेधादहि- निनयनं तु भवत्येव नतु निनयनमेवानेन प्रतिषिध्यते । नचावघ्राणस्यापि प्रतिषेधोऽ. स्त्विति वाच्यम् । श्रुतौ तानूनप्त्रावघाणस्य तानूनप्त्रप्रतिष्ठारूपत्वेनोक्ततया तस्य प्रतिषेध्दुमयोग्यत्वात्, विगीतत्वमूलकत्वेनान्तर्वेदिनिनयनस्यैव प्रतिषेध्यत्वकल्पनाया उचितत्वाच्च।

असंचर उत्सिञ्चतीत्येकेषाम् ।

जनानां यत्र संचरो मार्गो नास्ति तत्रोसिञ्चतीत्येकेषामाचार्याणां मतम् । तेन पूर्व- मतेऽप्यसंचर एव निनयनं परं तु अस्मिन्मत उत्सेचनं नास्तीत्येतावान्भेद इति द्रष्टव्यम् । १ख, ग, मनसा।