पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सर्ग:]. कञ्चिदायों विशुद्धात्मा न मोहात दण्डवते त्वया ? गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः । कच्चिन्न मुच्यते चोरः धनलोमात्, नरर्षभ ! ॥ ५७ ॥ 347 - गृहीत इत्यादि । सकारण: - चारत्वेन ग्रहण कारणसहित- स्सन् दृष्टः, अत एव गृहीतः पालकैः पृष्टश्चैव - किं किमचूचुर इति कृतप्रश्नश्च चोरः घनलोमात्-चोरेणैवोत्कोचतया दीयमानघन- होमात् पालकैः न मुच्यते कच्चित् ? || ५७ ।। -

  • 1 व्यसने कच्चिदाढ्यस्य' दुर्गतस्य च, राघव !

अर्थ विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ ५८ ॥ व्यसन इत्यादि । आढ्यस्य - घनिनः दुर्गतस्य वा व्यसने- क्षेत्र वितादिविनाशकृच्छ्रे राजकीयै कनिवर्त्यै तयोः अर्थ – कार्य बहुश्रुताः तवामात्याः विरागः: - घनस्पृहारहितास्सन्तः घनिदरिद्रा विशेषं पश्यन्ति- विचारयन्ति कच्चित् ? || ५८ ।।

  • यानि मिथ्याभिशस्तानां 'पदन्यासानि, राघव !

तानि पुत्रपरान् नन्ति S प्रीत्यर्थमनुशासतः ।। ५९ ।। यानीत्यादि । मिथ्यामिशस्तानां - राज्ञा च विचार्यानिवर्तित- मिथ्याभियोगानां - प्रजानां यानि पदन्यासानि सन्ति, छान्दसं आठ्यदरिद्रयोः परस्परं व्यवहारे प्राप्ते तव अमात्याः, आढ्यप्रभावापरवशा:. दरिद्रदुर्गतिदीना वा भूत्वा माध्यस्थ्यं अत्यजन्तः धर्ममात्रं पश्यन्ति कच्चिदिति भावः । + अर्थ – ब्यवहारं, ' अर्थ: स्यात् विषये मोक्षे शब्दवाच्ये प्रयोजने। व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु' इति वैजयन्ती - गो. + पूर्वापरःनुरूप्यादिपरिशीलने अस्य श्लोकस्य 'कच्चदार्यो विशुद्धात्मा' इतिश्लोकानन्तर्ये औचित्यातिशवः प्रतिभाति । S स्वेष्ठ संपश्यर्थमिति यावत् । व्यसनैः- ङ. 2 दुर्बलस्य-च. 3 पतन्त्यस्त्राणि – पतन्त्स्य श्रणि-ह.