पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
      • कुशलप्रश्नः www

कच्चित् सर्वाणि * दुर्गाणि धनधान्यायुधोदकैः । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ ५३ ।। आयस्ते त्रिपुलः कच्चित् कच्चिदल्पतरो व्ययः । + अपात्रेषु न ते कच्चित् कोशो गच्छति, राघव! ।। ५४ ।। आयः -- धनागमः । व्ययः - भोगबलादिरक्षायै त्यागः । अपात्रेषु – नटगायकादिषु ।। ५४ । 346 +देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ ५५ ।। व्यय इति । आयात् न्यून इति शेषः ॥ ५५ ॥ कच्चिदार्यो विशुद्धात्माऽऽक्षारित आपकर्मणा । 8 'अपृष्टः शास्त्रकुशलैः न || लोभात् वध्यते शुचिः || ५६ ॥ कच्चिदार्य इत्यादि । आर्यः --- साधुः विशुद्धात्माऽपि सन् आक्षारितः अभिशस्तः शास्त्रकुशलैः– धर्मशास्त्रनिष्णातैः अपृष्टस्सन् लोभात् शुचिरपि सन् न बध्यते-- न दण्ड्यते कच्चित् ? ।। ५६ ।। अपकर्मणा - स्तेयागम्यागमनादिदोषेण - [अयोध्याकाण्ड: - 3

  • अत्र कामन्दक: —' औदकं पार्वतं वाले ऐरिणे धान्वनं तथा । जलान्तायुध-

यन्त्राढ्यं वीरयोधैरधिष्ठितम् । गुप्तिप्रधानमाचार्या: दुर्ग समनुमेनिरे इति-गो. + अपात्रेषु – नटविटगायकेषु, तेभ्योऽपरिमितं न देयमिति भाव:- गो. केवल- क्रीडाव्यसनवान् मा भवेति यावत् । धनव्ययस्योचितं पात्रमाह - देवार्थ इति । ६ यदृच्छपा चोरकर्मणा (पाठान्तरं ) आक्षारित:- अभिशस्त:- गो. अत्र विशुद्धात्मा इत्यनेनात्मशुद्धिः शुचिः इत्यनेन प्रकृतशुद्धिश्च कथिता, तेन न पौनरुक्तयम् । || 'लुभ विमोहने' इति धातो:-म्यामोहादित्यर्थे। वा 1 प्रतिपूर्णानि-च, 2 श्रोरकर्मणा-ङ.. अदृष्ट: च. --