पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७ सर्गः]
3
ततः सुमन्त्रः कृच्छ्रेण वनात् प्रत्याययौ पुरीम्


[१]ततः सायाह्नसमये [२] द्वितीयेऽहनि सारथिः ।
अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ ५ ॥

 सायमह्नः – एकदेशिसमासोऽन्यत्रापि, ततः ’अह्नोऽह्न एतेभ्यः' इत्यह्नादेशः एकदेशात्परत्वात् । द्वितीयेऽहनीति । गुहेन दिनत्रयं स्थित्वा प्रतिनिवृत्त्यनन्तरमिति शेषः । यथा आगमनसमये अतिवेगेन रथेन दिनद्वयादागतं आगङ्गं – तथा प्रतिनिवृत्तिसमयेऽपि शीघ्रं दिनद्वयेन ययावित्यर्थः ॥ ५ ॥

स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः ।
सुमन्त्रः चिन्तयामास शोकवेगसमाहतः ॥ ६ ॥

स शून्यमिव - शून्यनगरीवन्निश्शब्दाम् ॥ ६ ॥

कच्चिन्न सगजा साश्वा सजना सजनाधिपा ।
रामसन्ताप[३]दुःखेन दग्धा शोकाग्निना पुरी ॥ ७ ॥
इति चिन्तापरः सूतः वाजिभिः शीघ्र[४]यायिभिः ।
नगरद्वारमासाद्य त्वरितः प्रविवेश ह || ८ ||
सुमन्त्रमभि[५] यान्तं तं शतशोऽथ सहस्रशः ।
क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥ ९ ॥

सूनमभ्यद्रवन्– सूतसम्मुखमाजग्मुः ॥ ९ ॥

तेषां शशंस गङ्गायां अहमापृच्छ्य राघवम् ।
अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना ।। १० ।।



  1. तृतीयेऽहनि - शृङ्गबेरपुरान्निर्गमापेक्षया तृतीयदिवसे । यद्वा अहनि तृतीये-सायाह्नसमये- गो. ती.
  2. तृतीये-ङ.
  3. शोकेन - ङ.
  4. पातिभिः - ङ.
  5. धावन्तं, यान्तं तु-ङ.