पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
2
[अयोध्याकाण्ड:
सुमन्त्रप्रत्यागमनम्

भरद्वाजाभिगमनं प्रयागे च [१] सभाजनम् ।
आगिरेर्गमनं तेषां [२] तत्रस्थैरभिलक्षितम् ॥ २ ॥

[३] सभाजनमिति । भरद्वाजेनेति शेषः । आगिरे:- चित्रकूटगिग्मिभिव्याप्य संपन्नं तेषां रामादीनां गमनम्, तत्रस्थैः-शृङ्गिवेरपुरस्थैः गुहसुमन्त्रादिभिः गुहचारमुखेन अभिलक्षितं-ज्ञातम् । गङ्गोत्तरणदिवसनिशा भरद्वाजाश्रमेऽभूत् । द्वितीयनिशा यमुनातीरे । तृतीया चित्रकूटे। तत्र त्वासिषतेत्यवगतवन्त इत्यर्थः ॥ २ ॥

[४]अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् ।
अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ ३ ॥

अनुज्ञातः सुमन्त्र इति । गङ्गोत्तरणदिवसे रामेणेति शेषः ॥ ३ ॥

स वनानि सुगन्धीनि सरितश्च सरांसि च ।
[५]पश्यन् यत्तो ययौ शीघ्रं ग्रामाणि नगराणि च ॥ ४ ॥

यत्तः - सावधानः ॥ ४ ॥


  1. सहासनम् - ङ. च. ट.
  2. तत्रस्थैः- शृङ्गिवेरपुरस्थैः चारैरभिलक्षितं - निवेदितम् । सुमन्त्रेण सम्यग्विदितमित्यर्थः । गङ्गोत्तरणदिवसनिशा वनस्पतिमूले, द्वितीया भरद्वाजाश्रमे, तृतीया यमुनातीरे, चतुर्थेऽहनि चित्रकूटगमनं, पञ्चमे पुनरागम्य चारैर्निवेदनम् - गो. । तीर्थेऽप्येवमेव ।
    तिलके-गङ्गोत्तरणतृतीयदिवसे भरद्वाजाश्रमात् प्रतिनिवृत्तदूतमुखात् तावत्पर्यन्तं तद्वृत्तं ज्ञात्वा तद्दिन एव शृङ्गवेरपुरात्सुमन्त्रस्य प्रतिनिवृत्तिरिति बोध्यम् । अत एव ’रामस्य निर्गमदिनात् दिने षXऽधरात्रके । हा हा लक्ष्मण हा सीते हा रामेति मृतो नृपः॥’
    इति पाद्म संगच्छते--इत्युक्तम् ।
    अथवा -- तत्रस्थैः -- गुहसुमन्त्रादिभि: तत्सर्वमवगतम् । चित्रकूटे रामवासदिनपर्यन्तं तत्रैव स्थित्वा सर्वो वृत्तान्तः वन्यजनद्वाराऽवगतः तैः इत्यर्थः ।
  3. सहासनम् - ङ. च. ट.
  4. अनुज्ञातः, गुहेनेति शेषः -गो. ति. अथ - - रामस्य चित्रकूटे प्रतिष्ठां ज्ञात्वा ।
  5. पश्यन्नतिययौ - ङ.