पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

॥ श्रीरामचन्द्रपरब्रह्मणे नमः ॥

श्रीमद्वाल्मीकिरामायणम्

श्रीमन्माधवयोगिविरचितया

अमृतकतकाख्यव्याख्यया सहितम्


अयोध्याकाण्डः

सप्तपञ्चाशः सर्गः

[ सुमन्त्रप्रत्यागमनम् ]

कथयित्वा तु दुःखार्तः सुमन्त्रेण चिरं सह ।
रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ १ ॥

 एवं रामवृत्तान्तमुक्त्वा विसृष्टसुमन्त्रव्यापारकथनम् । कथयित्वेत्यादि ॥ १ ॥


गो.--गोविन्दराजीयम्. ति. --तिलकम्. ती.-- महेश्वरतीर्थीयम. रा. - रामायणशिरोमणिः.