पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
4
[अयोध्याकाण्डः
सुमन्त्रप्रत्यागमनम्


 गङ्गायां शृङ्गिबेरपुरे राघवेणानुज्ञातः तमापृच्छ्य निवृत्तोऽस्मि । [१] ततः परं वृत्तान्तो मया सम्यक् न ज्ञायते तत्र बहुदिवसमवस्थितेनापीति शशंसेत्यर्थः ॥ १० ॥

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः ।
अहो धिगिति निश्वस्य हा रामेति विचुक्रुशुः ॥ ११ ॥

ते तीर्णा इति । गङ्गामुत्तीर्य गता इति, विज्ञाय ॥ ११ ॥

शुश्राव च वचस्तेषां बृन्दं बृन्दं च तिष्ठताम् ।
हताः स्म खलु ये नेह पश्याम इति राघवम् ॥ १२ ॥

[२]दानयज्ञविवाहेषु [३] समाजेषु महत्सु च ।
न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ १३ ॥

 समाज:- महाजनसमूहः । दानयज्ञादिसन्तोषव्यवहारेषु धार्मिकं राममन्तरा--तत्तद्दानयज्ञादिव्यवहारमध्ये तस्य तस्य तत्तत्साधकं जातु पुनर्द्रक्ष्यामो न किम् ? ॥ १३ ॥

[४]किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।
इति रामेण नगरं [५] पित्रेव परिपालितम् ॥ १४ ॥


  1. यद्यपि सुमन्त्रेण तदनन्तरवृत्तान्त: चित्रकूटप्राप्तिपर्यन्त: चारमुखादवगत इति अनुपदमेवोक्तं (२ श्लोके) -- अथापि स वृत्तान्तश्चारमुखात्केवलमवगतः, न साक्षादिति भावेन सुमन्त्रस्तथोक्तवान् – इति व्याख्यात्रा ’सम्यक्’ पदोपादानेन व्याख्यायि । वस्तुतस्तु मूले सुमन्त्रेण वृत्तान्त: संग्रहतः प्रतिपादितः, अन्यच्च न निषिद्धं इति न दोषः ॥ अथ वा रामस्थानकथने पुनरपि पौरा: तत्रापि गच्छेयुरिति एवं उक्तम् ।
  2. दानादिषु अन्तरा - मध्ये (स्वयं वात्सल्यादागत्य) नायकमणिवद्वर्तमानं रामं पुनः जातु कदाचिदपि न द्रक्ष्यामः किं ? इति काकु: - गो.
  3. समाधिषु - ङ.
  4. अयमपि नगरजनवचोऽनुवादो वा--अस्य
    जनस्य किं समर्थम् ? किं प्रियम् ? किं सुखावहम् ? इति रामेण, पित्रेवेदं नगरं
    परिपालितं-इत्यादि परिदेवनं शुश्रावेत्यन्वयः ॥
  5. पितृवत्-ङ.