पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
206
[ अयोध्याकाण्ड:
भरतचित्रकूटयात्रा


उपेत्य तीरं गङ्गायाः चक्रवाकैरलङ्कृतम् ।
व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ॥ २१ ॥
[१]निरीक्ष्यानुगतां [२] सेनां तां च गङ्गां शिवोदकाम् ।
भरतः सचिवान् सर्वान् अब्रवीद्वाक्यकोविदः ॥ २२ ॥
निवेशयत मे [३] सैन्यं [४]अभिप्रायेण [५]सर्वतः ।
विश्रान्ताः प्रतरिष्यामः श्व [६] इदानीमिमां नदीम् ॥ २३ ॥

 अभिप्रायेण–सन्तरणाभिप्रायेण सह न्यवेशयत, गङ्गातीरे सुखमस्तीति नात्र द्वित्रदिनवासबुद्ध्या । तदेवाह-श्वः प्रतरिष्याम इति । इदानीं विश्रान्ता इत्यन्वयः ॥ २३ ॥

दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः ।
और्ध्वदेहनिमित्तार्थं अवतीर्योदकं नदीम् ॥ २४ ॥

 देहपातादूर्ध्वकाले प्राप्तं निमित्तं यस्य परलोकस्य सः ऊर्ध्वदेहनिमित्तः, स्वार्थिकोऽण्, ऊर्ध्वदेहनिमित्ताय-परलोकप्रयोजनाय इदं-और्ध्वदेहनिमित्तार्थम् ॥ २४ ॥

तस्यैवं ब्रुवतोऽमात्याः तथेत्युक्त्वा समाहिताः ।
न्यवेशयंस्तान् छन्देन स्वेन स्वेन पृथक् पृथक् ॥ २५ ॥

 छन्दः - इच्छा ॥ २५ ॥


  1. निरीक्ष्यानुत्थितां च.
  2. अनुत्थितां— गमने अनुद्योगां-ति.गङ्गया निरोधादिति शेषः ।
  3. सर्व- ङ.
  4. अभिप्रायेण– तत्तदिच्छया-गो. 'अद्य विश्रान्ताः श्व: प्रतरिष्यामः' इत्यभिप्रायेण --मदभिप्रायज्ञापनेन निवेशयतेर्त्य:- ति. 'तस्यैवं ब्रुवतः' इत्याद्यनन्तरश्लोकपरिशीलने गोविन्दराजोक्तं स्वरसमिव ।
  5. सर्वश:- ङ.
  6. इदानीं महानदीम्-ङ, इमां सागरंगमाम्-च.