पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३ सर्ग:]
205
ततो गङ्गां समासेदुः शृङ्गवेरपुरे तु ते

 तुन्नवायाः - सौचिकाः । घोषः -- आमीरपल्ली, ग्राममहत्तराः घोषमहत्तराश्च तथा – परिबृढाः । कैवर्तः - घीवरः - दाशः -वलधरः । कारवः - कर्मकरा: ॥ १५ ॥

[१]समाहिता वेदविदः ब्राह्मणा [२]वृत्तसम्मताः ।
गोरथैर्भरतं यान्तं अनुजग्मुः सहस्रशः ॥ १६ ॥
सुवेषाः शुद्धवसनाः ताम्रमृष्टानुलेपनाः ।
सर्वे ते [३] विविधैर्यानैः [४] शनैर्भरतमन्वयुः ॥ १७ ॥

 गोरोचनाकुङ्कुमादिवस्तुसम्बन्धतः ताम्रवर्णं मृष्टं संपूर्ण अनुलेपनं येषां ते तथा ॥ १७ ॥

[५] प्रहृष्टमुदिता सेना साऽन्वयात् कैकयीसुतम् ।
भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ॥ १८ ॥
ते गत्वा दूरमध्वानं रथयानाश्चकुञ्जरैः ।
[६] समासेदुस्ततो गङ्गां शृङ्गिवेरपुरं प्रति ॥ १९ ॥
यत्र रामसखो वीरः गुहो ज्ञातिगणैर्वृतः ।
[७] निवसत्यप्रमादेन देशं तं परिपालयन् ॥ २० ॥

 शृङ्गिबेरपुरं प्रतीति । लक्षणे प्रतिः कर्मप्रवचनीयः, शृङ्गिबेरपुर इत्यर्थः । अप्रमादेन अटवीं देशं-रामाश्रितं स्वीयं देशं सावधानतया रक्षन् ॥ २० ॥


  1. समाहिता: – योगिनः- गो.
  2. व्रतसम्मताः - ङ.
  3. विमलै-च.
  4. वाहनादिसम्मर्दात्-शनैरिति ।
  5. प्रहर्ष:-कायिको रोमाञ्चादिः, मोद: – मानसो हर्ष:- गो. ती.
  6. शृङ्गिबेरपुरं प्रति दूरमध्वानं गत्वा गङ्गां समासेदुरिति सम्बन्ध:- गो.
  7. अप्रमादेन - सावधानतया, रामविरोध्यागमनवारणपर इत्यर्थ:- गो. अथ वा गुहस्य निषादराजत्वात् स्वं देशं सावधानं पालयन्निवसतीति वाऽर्थः ।