पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
204
[अयोध्याकाण्ड:
भरतचित्रकूटयात्रा


कुर्वन्तीति तन्तुवायाः तन्तुसीवकाः [१] । शस्त्रनिर्मााणेनोपजीविनः-शस्त्रोपजीविनः ॥ १२ ॥

[२]मायूरकाः क्राकचिकाः रोचका वेधकास्तथा ।
दन्तकारा [३]सुधाकाराः तथा गन्धोपजीविनः ॥ १३ ॥

 मायूरकाः- मयूरग्राहिणः, इदमुपलक्षणं शुकादिग्राहिणाम् । क्राकचिका: - 'क्रकचः करपत्रं स्यात्' ; क्रकचेन जीवन्तीति तथा । रोचकाः--काचकुप्यादिकर्तारः। वेधकाः—मण्यादिवेधकाः । दन्तकाराः- दन्तेन समुद्गकादिकर्तारः । सुधाकाराः- वज्रलेपकर्तारः । गन्धोपजीविनः- गन्षद्रव्यविऋयिकाः ॥ १३ ॥

सुवर्णकाराः प्रख्याताः तथा [४] रङ्गोपजीविनः ।
स्नापको[५] च्छेदका वैद्या: [६] धूपकाः शौण्डिकास्तथा ॥

 रङ्गोपजीविनः -नटाः । स्नापकाः – उष्णोदकस्नापकाः, उच्छेदकाः – अङ्गमर्दकाः, 'उच्छेदनं समुल्लेखोद्वाहनोद्वर्तनेषु च’ इति विश्वः । धूपकाः – धूपद्रव्यविक्रयिकाः । शौण्डिकाः-मद्यकराः, 'शुण्डा करिकरे मद्ये' इति वैजयन्ती ॥ १४ ॥

रजका [७]स्तुन्नवायाश्च घोषग्राममहत्तराः ।
[८]शैलूषाश्च सह स्त्रीभिः ययुः कैवर्तकारवः ॥ १५ ॥


  1. परन्तु - 80 सर्गाद्यश्लोकव्याख्याने इदं पदं अन्यथा विवृतम् .
  2. मायूरका:-मयूरपिञ्छैः छत्रव्यजनादिकारिणः । रोचकाः – दन्तकुड्यवेदिकादिषु कान्त्युत्पादका:- गो.
  3. सूपकारा:- ङ.
  4. कम्बलधावका:-ड. कम्बलकारका:- च.
  5. ष्णोदका-च. च्छादका-ङ.
  6. धूपका: - गृहादिषु धूपवासका:- गो.
  7. स्तन्तुवायाश्च-ङ.
  8. यद्यपि 'रङ्गोपजीविनः' इत्यनेनैव शैलूषा अपि गृहीताः, तथापि रङ्गोपजीविन इति शैलूषव्यतिरिक्तविषयमिति भावः । सन्त्यन्येऽपि
    खलु बहवो रङ्गोपजीविनः ।