पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३ सर्गः]
203
तत: प्रतस्थे भरत: मित्रामात्यैर्वृतो वनम्


 कैकेयी च ययाविति । स्वप्रवृत्तेः पुत्राहितस्य संपन्नत्वात्, 'किं कृतम्' इति खिन्ना लोकसंग्रहाय राजस्त्र्यन्तरेण सह ययौ ॥ ६ ॥

प्रयाताश्चार्यसङ्घाताः रामं द्रष्टुं सलक्ष्मणम् ।
तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ ७ ॥

 आर्याणां - त्रैवर्णिकानां सङ्घातास्तथा ॥ ७ ॥

मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।
कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ ८ ॥
दृष्ट एव हि नः शोकं अपनेष्यति राघवः ।
तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ।। ९ ।।
इत्येवं कथयन्तस्ते संप्रहृष्टाः कथा: शुभाः ।
परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥ १० ॥

 परिष्वजाना:- परिष्वजमाना इति यावत् । नगरे चरन्तीति-नागरिकाः, 'चरति' इति ठक् ॥ १० ॥

ये च तत्रापरे सर्वे [१][२]संंमता ये च नैगमाः ।
रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तथा ॥ ११ ॥

 तत्र नगरे सम्मताः प्रसिद्धाः नैगमाः– वणिजः । प्रकृतयः-पौरश्रेणयः ॥ ११ ॥

मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः ।
सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥ १२ ॥

 विविच्य प्रदर्श्यन्ते – मणिकाराश्चेत्यादि । मणिकारा:-शाणायां मणिशोधनादिकर्तारः। सूत्रेण - तन्तुना पटकुटकादिकं


  1. संमता:, रामस्य-गो
  2. समेता, समस्ता - ङ.