पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
202
[अयोध्याकाण्डः
भरतचित्रकूटयात्रा

त्र्यशीतितमः सर्गः
[भरतचित्रकूटयात्रा]

ततः समुत्थितः [१] काल्यं आस्थाय स्यन्दनोत्तमम् ।
प्रययौ भरतः शीघ्रं रामदर्शन[२]काङ्क्षया ॥ १ ॥

अथ सबलस्य भरतस्यागङ्गं प्रस्थानम् । तत इत्यादि काल्यमास्थाय- उषस्यनुष्ठानं कृत्वा, स्यन्दनोत्तमं चास्थाय ॥ १ ॥

अग्रतः प्रययुस्तस्य सर्वे मन्त्रि [३],पुरोधसः ।
अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ॥ २ ॥
[४]नवनागसहस्राणि कल्पितानि यथाविधि ।
अन्वयुर्भरतं यान्तं इक्ष्वाकुकुलनन्दनम् ॥ ३ ॥

कल्पितानि-सज्जितानि । यथाविधि- यथारुचि ॥ ३ ॥

षष्टी रथसहस्राणि धन्विनो विविधायुधाः ।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ४ ॥
शतं सहस्राण्यश्वानां समारूढानि राघवम् ।
अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम् ॥ ५ ॥

समारूढानि-सादिभिरिति शेषः ॥ ५ ॥

[५] कैकेयी च सुमित्रा च कौसल्या च यशखिनी । रामानयनसंहृष्टाः ययुर्यानेन [६]. भास्वता ॥ ६ ॥


  1. काव्यं - प्रातःकाले-ती. काल्यं -- अहर्मुखं प्राप्येति शेषः - गो.
  2. काम्यया-च.
  3. पुरोहिताः-च
  4. अत्र 'सर्वाणि' इत्यनुक्त्वा संख्याग्रहणात् नगरस्थगजेषु तावन्त एव प्रस्थिता इति ज्ञायत इति गोविन्दराजः ।
  5. अत्र कैकेय्याः प्रथमग्रहणात्, पश्चात्तापातिशयात् तस्याः त्वरातिशय: सूच्यत इव ।
  6. यानेनेत्येकवचनं प्रत्येकापेक्षया । सौहार्दादेकयानेनैव तिसॄणां गमनं वा-ति