पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२ सर्गः]
201
सर्वं सज्जीचकाराथ सुमन्त्रो भरताज्ञया

तूर्णं समुत्थाय, सुमन्त्र ! गच्छ
बलस्य योगाय [१] बलप्रधानान् ।
[२]आनेतुमिच्छामि हि तं वनस्थं
प्रसाद्य रामं जगतो हिताय ॥ ३० ॥

योगाय- सम्मेलनाय | बले प्रधानान् आज्ञापयेति शेषः ॥ ३० ॥

स सूतपुत्रो भरतेन सम्यक्
आज्ञापितः संपरिपूर्णकामः ।
शशास सर्वान् प्रकृतिप्रधानान्
बलस्य मुख्यांश्च सुहृज्जनं च ॥ ३१ ॥

ततः समुत्थाय कुले कुले ते
राजन्यवैश्या [३] वृषलाश्च विप्राः ।
'अयूयुजन् [४]. उष्ट्ररथान् खरांश्च
नागान् हयांश्चैव कुलप्रसूतान् ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्व्यशीतितमः सर्गः


कुले कुले - गृहे गृहे, 'कुलं जनपदे गृहे'। कुलप्रसूतानिति । उत्तमानिति यावत् । संग (३७) मानः (?) सर्गः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्व्यशीतितमः सर्गः




  1. प्रधानशब्दः पुहिङ्गोऽप्यस्ति-गो. बलप्रधानान् गच्छ – उपसर्प । सेनायाः सेनान्याज्ञाधीनत्वादेवमुक्ति: ।
  2. आज्ञातु-ङ.
  3. नगरे च-ङ.
  4. उष्ट्रखरान् रथांश्च-ङ