पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
200
[अयोध्याकाण्डः
सेनाप्रस्थानम्


[१]ततो योधाङ्गनाः सर्वाः भर्तॄन् सर्वान् गृहे गृहे ।
[२] यात्रागमन[३]माज्ञाय त्वरयन्ति स्म हर्षिताः ॥ २५ ॥

 यात्रार्थं गमनं - यात्रागमनम् ॥ २५ ॥

ते हयैः गोरथैः शीघ्रैः [४] स्यन्दनैश्च महाजवैः ।
[५]सह योधैर्बलाध्यक्षाः बलं [६] सर्वमचोदयन् ॥ २६ ॥

 गोरथैः–बलीवर्दयुक्तशकटैः ॥ २६ ॥

सज्जं तु तद्बलं दृष्ट्वा भरतो [७] गुरुसन्निधौ ।
रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् ॥ २७ ॥

 गुरुसन्निधौ — वसिष्ठसन्निधौ ॥ २७ ॥

भरतस्य तु तस्याज्ञां प्रतिगृह्य च हर्षितः [८] । ।
रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः ॥ २८ ॥

[९]::स राघवः सत्यधृतिः प्रतापवान्
ब्रुवन् [१०]सुयुक्तं दृढसत्यविक्रमः ।
गुरुं महारण्यगतं यशस्विनं
प्रसादयिष्यन् भरतोऽब्रवीत्तदा ॥ २९ ॥

 सुयुक्तं ब्रुवन्नित्यन्वयः । गुरुं-रामम् ॥ २९ ॥

  1. ततोऽयोध्याङ्गना. - ङ.
  2. यात्रागमनं - रामागमनानुकूलं-ती. यात्राऽऽगमनं —— यात्राया आगमनं सन्निहिततामिति यावत् ।
  3. मास्थाय-ङ.
  4. स्यन्दनैश्शकटैस्तथा - ङ., स्यन्दनैश्च मनोजवैः- ङ, च.
  5. सहयोषिद्बलाध्यक्षाः-च.
  6. सज्ज-ङ.
  7. गुरुसन्निधाविति अनुज्ञाकरणार्थमुक्तम्- गो.
  8. हर्षित:-सुमन्त्र:
  9. उक्तमर्थं पुनः सङ्ग्रहेण दर्शयति–स इत्यादिना । सत्यधृतिः - अप्रच्युतधैर्यः। सुयुक्तं ब्रुवन् गुरुं प्रसादयिष्यन् – उचितवचनेन रामं प्रीणयिष्यन्नित्यर्थ:-गो.
  10. संयुक्तं-ङ.