पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२ सर्ग:]
199
यात्रामाज्ञापयामास स रामस्य निवर्तने


वर्तिष्ये – अनुष्ठास्ये । आर्यमिश्राणां - आर्या:- त्रैवर्णिकाः, ते चैते मिश्राः- पूज्याः तथा । युष्माकं समक्षमिति योजनीयम् ॥ १९ ॥

[१] विष्टिकर्मान्तिकाः सर्वे मार्गशोधक[२]रक्षकाः ।
प्रस्थापिता मया पूर्वं यात्राऽपि मम रोचते ॥ २० ॥

अपि च सर्वे मार्गशोधकरक्षकाः विष्टिकर्मान्तिकाः-विशेर्विष्टिः-प्रवेशः, रामाश्रितवनपुरोयुक्ताः, कर्मान्तिकाः- कर्मकरास्तथा । ममापि यात्रेति योजना ॥ २० ॥

एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः ।
समीपस्थमुवाचेदं सुमन्त्रं [३] मन्त्रकोविदम् ॥ २१ ॥
तूर्णमुत्थाय गच्छ त्वं, सुमन्त्र ! मम शासनात् ।
यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ॥ २२ ॥
एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना ।
हृष्टस्तदादिशत् सर्वं यथासन्दिष्ट[४]मिष्टवत् ॥ २३ ॥

इष्टवत्-भरतस्येष्टः सन् यथासन्दिष्टं आदिशत्-आज्ञापयति स्म ॥

[५]ताः प्रहृष्टाः प्रकृतयः बलाध्यक्षा बलस्य च ।
श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने ॥ २४ ॥

निवर्तने–निवर्तननिमित्तम् ॥ २४ ॥


  1. विष्टयः - भृतिमन्तरेण जनपदेभ्यः समानीता: कर्मकरा: । कर्मान्तिकाः-कर्मान्ते भृतिगृहीतारः । मार्गशोधकरक्षका इति विष्ट्यादिविशेषणम् । 'प्रस्थापिता मया पूर्वं' इत्यभिधानात् वसिष्ठः शिबिरकरणनियोगमजानन्नभिषेकप्रस्तावं कृतवानित्यवगम्यते - गो. वस्तुतस्तु — वसिष्ठेन अमन्त्रयित्वैव तेषां प्रेषणेऽपि, स्वकर्तव्यदृष्ट्या वसिष्ठेनाभिषेकप्रस्तावकरणं युज्यत एव । शिष्टं गतसर्गीयप्रथमश्लोकव्याख्याटिप्पण्यां द्रष्टव्यम् ॥
  2. दक्षकाः, तक्षका:-ङ,
  3. मन्त्रि-ङ.
  4. इष्टवत्— इष्टार्हं–इष्टानुरूपमिति यावत्- गो.
  5. यात्रां श्रुत्वा प्रकृत्यादयः प्रहृष्टा अभवन्नित्यन्वयः ।