पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
198
[अयोध्याकाण्ड:
सेनाप्रस्थानम्

[१][२]यद्धि मात्रा कृतं पापं नाहं तदपि रोचये ।
इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः ॥ १५ ॥

 ननु महता प्रयासेन राज्यं संपादितमित्यस्मदादिभिः राजा भवेत्युच्यत इत्याशङ्कां निरस्यति – यद्धीत्यादि । वनरूपं दुर्गं वनदुर्गम् ।। १५ ।।

राममेवा[३]नुगच्छामि राजा स द्विपदां वरः ।
त्रयाणामपि लोकानां राज्यमर्हति राघवः ॥ १६ ॥

 द्विपदामिति । द्वौ पादौ येषां ते तथा, ततः 'सङ्ख्या सुपूर्वस्य' इति लोपः समासान्तः द्विपादिति, तत: 'पाद: पत्’ इति भस्थले पदादेशः, पुरुषाणामिति यावत् ॥ १६ ॥

[४] तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासद: । हर्षान्मुमुचुरश्रूणि [५]रामे निहितचेतसः ॥ १७ ॥ यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् । वने तत्रैव वत्स्यामि यथाऽऽर्यो [६] लक्ष्मणस्तथा ॥ १८ ॥ सर्वथैव स्वराज्यचिन्ता नास्तीति स्पष्टयति – यदि त्वित्यादि ।

[७][८]सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं [९] वनात् ।
समक्षमार्यमिश्राणां साधूनां गुणवर्तिनाम् ॥ १९ ॥


  1. अनेन अप्राप्तभाषणश्रवणपापस्य प्रायश्चित्तमनुश्रितम्- गो.
  2. यदि - ङ.
  3. भिगच्छामि-ङ.
  4. मध्येऽयमेकः श्लोकः कविवाक्यम् ।
  5. तदा विस्मितमानसाः-ङ.
  6. कनिष्ठे लक्ष्मणे आर्यशब्दप्रयोगः ज्येष्ठानुवर्तनरूपधर्मनिरतत्वात् - गो.
  7. सर्वोपायमिति क्रियाविशेषणम्, सर्वोपायं यत्नैः करिष्ये इत्यर्थः । आर्यमिश्राणां सदस्यानाम्, ’आर्यमिश्रा: पारिषदाः सदस्या: सामवायिका: ' इति
    सज्जनाः । भवद्भिरप्यागन्तव्यमित्यर्थादुक्तं भवति - गो.
  8. सर्वोपायै-येतिष्ये तं-ङ.
  9. बलात्- ङ.