पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२ सर्गः]
197
नाङ्गीचकार भरतः राजत्वं राघवं स्मरन्

स बाष्पकलया वाचा कलहंसस्वरो युवा ।
विललाप सभामध्ये [१]जगर्हे च पुरोहितम् ॥ १० ॥

 जगर्ह इति । सर्वज्ञेनापि भवता इदमनुचितमज्ञानादेवोक्तमित्युक्तवानित्यर्थः ॥ १० ॥

चरितब्रह्मचर्यस्य विद्यास्त्रातस्य धीमतः ।
धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ॥ ११ ॥

 प्रयतमानस्येति । ज्येष्ठस्य रामस्येति शेषः । मद्विध इति । चरितब्रह्मचर्यस्येत्याद्युक्तलक्षण इत्यर्थः ॥ ११ ॥

कथं दशरथात् जातः भवेद्राज्यापहारकः ।
 [२] राज्यं चाहं च रामस्य, धर्मं वक्तुमिहार्हसि ॥ १२ ॥

 रामस्येति । स्वमिति शेषः । अत एवं विज्ञाय धर्ममेव भगवन् वक्तुमिह सभायामर्हसि, न मुखेच्छयैव, नान्याय्यमित्यर्थः ॥

ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः ।
लब्धुमर्हति काकुत्स्थः राज्यं दशरथो यथा ॥ १३ ॥
अनार्यजुष्टमस्वर्ग्यं कुर्या पापमहं यदि ।
[३]इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ॥ १४ ॥


  1. सम्यक् त्वयाऽस्य कुलस्य भावि हितमवेक्षितमिति निनिन्द-गो.
  2. 'गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्' इतिन्यायेन, यदाऽहं राज्यं च रामशेषभूतं, तदा कथमहं राज्यपालको भवेयम् ? राजपुरुषेषु उत्तममध्यमादिभेदभिन्नेषु परस्परं नियाम्यनियामकभावदर्शनेऽपि, स अधिकारः राज्ञैव दत्तः, अतः स एव परमशेषी । तद्वदेव रामवचनात् मया राज्यपरिपालनेऽपि नाहं राजा स्याम् । तादृशराज्यपरिपालनस्य निरन्तरत्वमपि न भवितुमर्हत्येव । ’निरन्तरं भवानेव राज्यं शासतु' इति रामादेशे किं कुर्यास्त्वमिति चेत्, इदं च मद्राजत्वे-मच्छेषित्व एव विश्रान्तमिति कथमहमङ्गीकुर्याम् ? शेषभूतस्य शेषित्वं युज्यते वेति अस्मिन् विषये त्वमेव धर्मं वक्तमर्हसीति भावः ॥
  3. इक्ष्वाकूणां लोके-तत्सम्बन्धिनि जने- गो.