पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
196
[अयोध्याकाण्डः
सेनाप्रस्थानम्


रामस्तथा सत्य[१]धृतिः सतां धर्ममनुस्मरन् ।
[२] नाजहात् पितुरादेशं शशी ज्योत्स्नामिवोदितः ॥ ६ ॥

सतां घर्ममिति । ‘जीवतोर्वाक्यकरणात् प्रत्यब्दं भूरिभोजनात्। गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता' इति न्यायमनुस्मरन्-पितृवाक्यकरणरूपं धर्ममनुस्मरन्नित्यर्थः ॥ ६ ॥

पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् ।
तद्भुङ्क्ष्व [३] मुदितामात्यः क्षिप्रमेवाभिषेचय ॥ ७ ॥

मुदिताः अमात्याः यस्य स तथा ॥ ७ ॥

उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च [४] केवलाः ।
[५] [६]कोट्योऽपरान्ताः सामुद्राः रत्नान्यभिहरन्तु ते ॥ ८॥

उदीच्यादयस्तु 'साम्राज्यं भौज्यं स्वाराज्यं वैराज्यम्' इति राज्याभिषेकब्राह्मणोक्तपट्टाभिषेकवन्तः राजानः, चकारात् प्राच्यानां समुच्चयः । केवला:-पट्टाभिषेकरहिताः केवलप्रभवः । अपरान्ताः- द्वैप्ययवनाश्रयद्वीपभेदाः, अपरान्तवर्तिनः अपरान्ताः । सामुद्रा:- पोतवणिजः । कोट्यो रत्नानीति 'शतं ब्राह्मणाः' इतिवन्नियतलिङ्गत्वात् ॥ ८ ॥

तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः ।
जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया ॥ ९ ॥


  1. वृत्तिः-ङ.
  2. न अजहात्- अत्यजत्
  3. 'अहं हि पुरुषव्याघ्रौ अपश्यन् रामलक्ष्मणौ । केनशक्तिप्रभावेण राज्यं रक्षितुमुत्सहे' इत्येवंरूपं भरताशयं जानन्नाह वसिष्ठः-
    मुदितामात्य इति । भवद्विषयेऽमात्यानां वैराभावात् राज्यरक्षणं सुकरं भविष्यतीति भावः ।
  4. केवला:-सिंहासनादिरहिता: - इति अपरान्तादिविशेषणम्- गो.
  5. कोट्या-कोटि-संख्यया उपलक्षितानि रत्नानि - गो.
  6. कोट्या-ङ.