पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२ सर्ग:]
195
वसिष्ठः प्राह भरतं स्वीकर्तुं राज्यशासनम्


ह्यशीतितमः सर्गः [सेनाप्रस्थानम् ]

तामार्य[१]गणसंपूर्णां भरतः [२] प्रग्रहां सभाम् ।
ददर्श बुद्धिसंपन्नः [३]पूर्णचन्द्रो निशामिव ॥ १ ॥

अथ राजकर्तृभिः सभायां प्रार्थिताभिषेकः प्रत्याख्याय तं रामानुगमनाय सेनामुत्थापयति । तामित्यादि । प्रग्रहां - प्रकृष्टैर्वसिष्ठादिमहात्मभिः ग्रहः - परिग्रह:- अधिष्ठानं यस्यास्सा तथा ॥ १ ॥

[४]आसनानि यथान्यायं आर्याणां विशतां तदा ।
वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा ॥ २ ॥

आर्याणां - त्रैवर्णिकाणाम् ॥ २ ॥

सा विद्वज्जनसंपूर्णा सभा सुरुचिरा तदा ।
अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥ ३ ॥
राज्ञस्तु प्रकृतीः सर्वाः[५]समग्राः प्रेक्ष्य धर्मवित्
इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ॥ ४ ॥
तात ! राजा दशरथः स्वर्गतो धर्ममाचरन् ।
धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव ॥ ५ ॥

धर्ममाचरन्-सत्यमनुपालयन् ॥ ५ ॥


  1. गुण-ङ.
  2. प्रग्रहां-नियमवतीं, यद्वा शुक्रबृहस्पत्यादिप्रकृष्टग्रहयुक्तां; तदा निशाविशेषणमिदं-गो. अथ वा 'प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुजे । हयादिरश्मौ रश्मो च' इति कोशात् प्रग्रहशब्द: रश्मिवाची, ततः अर्शाद्यजन्तत्वे - प्रकाशमानामित्यर्थः ।
  3. पूर्णचन्द्रां - ङ.
  4. आसनानि विशतां - उपविशतां आर्याणां इत्यन्वयः ।
  5. समग्राः प्रकृती: प्रेक्ष्य-इङ्गितैस्तेषामभिप्रायं ज्ञात्वेति यावत् ; भरतं अब्रवीदित्यन्वयः ।