पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
194
[अयोध्याकाण्ड:
सेनासन्नाहः


ततो हलहलाशब्दः सुमहान् समपद्यत ।
रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम् ॥ १४ ॥

 हलहलेति शब्दानुकारः, जनानां हलहलाशब्द इत्यन्वयः ॥

ततो भरतमायान्तं शतक्रतुमिवामराः ।
प्रत्यनन्दन् प्रकृतयः यथा दशरथं तथा ॥ १५ ॥

[१]हृद इव तिमिनागसंवृतः
स्तिमितजलो मणिशङ्खशर्करः ।
दशरथसुतशोभिता सभा
सदशरथेव बभौ यथा पुरा ॥ १६ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकाशीतितमः सर्गः


 ह्रद इति । महाह्रदः समुद्र इत्यर्थः । तथा प्रयोगः ’सरसामस्मि सागरः’ इति । तथा 'किंस्वित् सूर्यसमं ज्योतिः किं समुद्रसमं सरः ?’ इत्यादि । तिमिः -- अनेकयोजनायामविस्तारवान् मत्स्यविशेषः । नागाः -- --जलगजाः, सर्पाश्च। मणयः -- मुक्तादयः, शङ्खाः, शर्कराः- सुवर्णखनिमृत्तिकाश्च यस्मिंस्तथा । चन्द्र इव मुखमितिवत् ह्रद इव सभेति भिन्नलिङ्गत्वेऽपि उपमानोपमेयभावः । सभायाः स्तिमितजलस्थाने वसिष्ठः, तिमिनागस्थाने भरतशत्रुघ्नौ, मण्यादिस्थाने अमात्यपौरजानपदाः । पुरा यथा सा सभा सदशरथा बभौ, तथैवेदानीं दशरथसुतशोभिता सती सदशरथेव बभाविति योजना । तर्क (१६) मानः सर्गः ॥ १६ ॥  इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकाशीतितमः सर्गः


  1. शर्कराशब्देनात्र स्थूलवालुका उच्यन्ते । ह्रदश्च समुद्रसमीपस्थः, तिमिशङ्का - दिसाहचर्यात् - गो.