पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१ सर्गः]
193
सर्वानाह्लापयामास प्रधानान् गुरुसत्तमः


शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम्
सुधर्मामिव धर्मात्मा [१] सगणः प्रत्यपद्यत ॥ १० ॥

सभाविशेषणं – शातकुम्भमयीमित्यादि ॥ १० ॥

स काञ्चनमयं पीठं सुखास्तरणसंवृतम् ।
अध्यास्त सर्ववेदज्ञः दूताननुशशास ह ॥ ११ ॥

पीठमध्यास्त, अनन्तरं दूताननुशशास ह ॥ ११ ॥

ब्राह्मणान् क्षत्रियान् वैश्यान् अमात्यान् गणवल्लभान् ।
क्षिप्रमानयताव्यग्राः कृत्य[२] मात्ययिकं हि नः ॥ १२ ॥

हि – यस्मात् नः कृत्यं आत्ययिकं-- अतीतकालिकं ज्ञायते [३] , अतः ब्राह्मणादीन् क्षिप्रमानयत ॥ १२ ॥

[४] सराज[५]भृत्यं शत्रुघ्नं भरतं च यशस्विनम् । युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः ॥ १३ ॥


  1. सगण:– सशिष्यगण:- गो. सपार्षदो वा ।
  2. आत्ययिकं, अत्यय:– कृच्छ्रं, तंत्र भवं – आत्ययिकं, यत्नसाध्यमित्यर्थ:- गो. ती.
  3. माकिं दशरथमरणानन्तरं विंशतिदिनानामतीतत्वात्, राज्यं सुदीर्घं अराजकं वर्तते, अतः क्षिप्रं कश्चन राजाऽभिषेचनीयः । विलम्बस्य नायं काल: – इति भावः ।
  4. सराजभृत्यं- राजान्तरङ्गभृत्यसहितम् । युधाजिदिति विजयाख्यमन्त्रिणो नामान्तरं, सुमन्त्रशब्दसाहचर्यात् । ये च तत्र - भरते हिता: हितपराः जनाः तानप्यानयतेति पूर्वेणान्वयः- गो. राजपुत्रैः इतरैः सहितं शत्रुघ्नं-ति. न गोविन्दराजीयदृष्ट्या -- शत्रुघ्नभरतौ न सामान्यरीत्या आनेयौ, किन्तु अङ्गरक्षकाद्यन्तरङ्गपरिवारविशिष्टर।जानाविवानेयौ इत्यर्थे विशेषणद्वयं उभयोरप्यन्वेति । अथ वा शत्रुघ्नः राजान्तरङ्गपरिवारनायक: स्यात्, अतस्तत्परिवारविशिष्टं शत्रुघ्नं यशस्विनं भरतं चेत्यर्थः । सराजपुत्रमिति पाठे तु – दशरथस्य सार्धत्रिशतपत्नीकत्वेन तेषु जातान् पुत्रानादाय शत्रुघ्न: आगच्छतु इत्यभिप्रायेण सराजपुत्रमिति स्यात्।
  5. पुत्रं- ङ. च.