पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
192
[अयोध्याकाण्ड:
सेनासन्नाह:


 ककेय्या हेतुभूतया ज्ञायमानं लोकस्य - सूतादे: अपकृतं-अनुचितं कर्म पश्य ॥ ५ ॥

तस्यैषा धर्मराजस्य धर्ममूला महात्मनः ।
परिभ्रमति राजश्रीः नौरि [१][२] वाकर्णका जले ॥ ६ ॥

 किं तत् ? इत्यतः -तस्येत्यादि । यो गतस्तस्येति योजना । न विद्यते कर्णकः-नाविकः यस्याः सा अकर्णका नौः, बहुपरिव्राजकवत् सुपः परत्वादित्वं न ॥ ६ ॥

यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।
अनया धर्ममुत्सृज्य मात्रा मे राघवः [३] स्वयम् ॥ ७ ॥
इत्येवं भरतं प्रेक्ष्य विलपन्तं [४] विचेतनम् ।
[५] कृपणं रुरुदुः सर्वाः [६]सस्वरं योषितस्तदा ॥ ८ ॥
[७] तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् ।
सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः ॥ ९ ॥

 राज्ञः पुरोहितेन कर्तव्यः घर्मः – राजधर्मः, तं वेत्तीति राजधर्मवित् । अत एव स्वकृत्यं स्वयं संपादयतीत्याह-सभामित्यादि ॥ ९ ॥


  1. अकर्णिका - कर्ण:-अरित्रं, 'कर्णः श्रोत्रमरित्रं च' इति भुवनः, सोऽस्यास्तीति कर्णी । स एव कर्णिकः-कर्णधारक इति यावत्, तद्रहिता- गो.
  2. बाकर्णिका, बाकण्डका-ङ.
  3. स्वयमित्यनेन कैकेयीकार्ये स्वासम्बन्धः प्रतिपाद्यते ।
  4. अनेकथा-ड.
  5. कृपणाः-ङ.
  6. सुस्वरं-ङ.
  7. एवं स्वगृहे भरते विलपति, राजसभां वसिष्ठः प्रविवेश इत्यर्थः । समानकालिकत्ववत् समानदेशत्वमपि न विवक्षितम् ; 'एवमत्र स्थितौ तत्रैवमासीत् ' इति व्यवहारवत् । शिष्टं प्रथमश्लोकव्याख्याटिप्पण्यां ज्ञेयम् ।