पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१ सर्ग:]
191
ततोऽविशद्राजसभां वसिष्ठो मन्त्रिसत्तमः


तत्सङ्गतम् । सविशेषं - राजनि राजपुत्रे वा अपेक्षितविशेषसहितं स्तवं जानन्तीति - सविशेषज्ञाः ॥ १ ॥

सुवर्ण[१]कोणाभिहतः प्राणदद्यामदुन्दुभिः ।
दध्मुः शङ्खांश्च शतशः [२] [३]वाद्यांश्चोच्चावचस्वरान् ॥ २ ॥

 यामावसानसूचको दुन्दुभिः - यामदुन्दुभिः । उच्चावचस्वरान् वाद्यान्-वाद्यविशेषान् दध्मुरिति शेषः ॥ २ ॥

स तूर्यघोषः सुमहान् दिवमापूरयन्निव ।
भरतं शोकसन्तप्तं भूयः शोकै[४] [५]ररन्धयत् ॥ ३ ॥

 शोकैः- शोकोत्पादनेन हेतुना अरन्धयत् - 'रघ पाकहिंसयोः', 'रधिजभो:--' इति नुम्; हिनस्ति स्मेति यावत् ॥ ३ ॥

ततः प्रबुद्धो भरतः तं घोषं सन्निवर्त्य च ।
नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ॥ ४ ॥
पश्य, शत्रुघ्न ! कैकेय्या [६] लोकस्यापकृतं महत् ।
विसृज्य मयि दुःखानि राजा दशरथो गतः ॥ ५ ॥


  1. वादनदण्डः -- कोणः ।
  2. नादान्-नाद्यन्ते एभिरिति नादाः, काहल्यादयः, तानू- गो. यद्यपि प्रपूर्वसर्ग एव भरतेन स्वाभिषेक: प्रतिषिद्धः; अथापि तत्र ’समेत्य
    राजकर्तार:' इत्येव दर्शनात्, तत्र सामान्यै: राज्यनिर्वाहकैरेव भरत: प्रार्थित इति गम्यते,
    न तु वसिष्ठेनापि । उत्तरत्रापि तत्सर्गे 'प्रत्युवाच जनः सर्व: ' इत्येव दृश्यते । एवञ्च
    सर्वं जानन्नपि वसिष्ठः स्वकर्तव्यत्वेन भरताभिषेकं स्वयं निश्चित्य भरतमाहूयादिदेशेति अत्र
    कथ्यत इति न विरोध: । इदमेवाभिप्रेत्यास्मिन् सर्गे 'वसिष्ठो राजधर्मवित्' इत्युक्तमिति
    भाति ॥
  3. नादांश्चो--ङ.
  4. अरन्ध्रयत्-व्यदारयत्-गो.
  5. ररन्ध्रयत्, रवर्धयत्, रजृंभवत्-ङ.
  6. लोकस्य-सूतमागधादे:, यद्वा जनस्य- गो.