पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
190
[अयोध्याकाण्ड:
सेनासन्नाह:


स चन्द्रतारागणमण्डितं यथा
नभः क्षपायाममलं विराजते ।
नरेन्द्रमार्गः स तथा व्यराजत
क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥ २३ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अशीतितमः सर्गः


 उच्यमानलक्षणां जाह्ववीमभिव्याप्य प्रवर्तितो नरेन्द्रमार्ग इति योजना | गोत्र (२३) मानः सर्गः ॥ २३ ॥

 इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे अशीतितमः सर्ग:



एकाशीतितमः सर्गः

[सेनासन्नाह:]

ततो [१] नान्दीमुखीं [२]रात्रि भरतं सूतमागधाः ।
तुष्टुवु [३]स्सविशेषज्ञाः स्तवैर्मङ्गलसंहितैः ॥ १ ॥

 अथ मन्त्रिपुरोहितैः स्वराजशासनानुरूपव्यवहारप्रवृत्तिः । तत इत्यादि । भरताभिषेकाय वसिष्ठेन कृतनान्दीमुखाद्यभ्युदयवतीं रात्रि-राज्यवसानमयस्वसेवाकालं प्राप्य सूतादयस्तुष्टुवुः । अत्र नान्दीमुखशब्देन स्वमुखमितस्ततः [४]परोऽताडयत् । न किमपि


  1. नान्दीमुखीं-रामानयनाभ्युदयप्रारम्भयुक्तां, यद्वा भरताभिषेकाय वसिष्ठेन
    कृतनान्दीमुखाभ्युदययुक्तां, यद्वा शोकविगमाय कृताभ्युदयामित्यर्थः । रात्रिं-रात्रौ,
    अपररात्र इत्यर्थ:- गो. अथ वा 'आशीर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रवर्तते ।
    देवद्विजनृपादीनां तस्मान्नान्दीति कीर्त्यते’ इति भरतवचनात् राजस्तुत्युपक्रमार्हः काल:
    'नान्दीमुखीं रात्रिं' इत्यनेनोच्यते ।
  2. ज्ञात्वा-ज.
  3. र्वाग्विशेषज्ञाः-ङ.
  4. प्राय: गोविन्दराजः ।