पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८० सर्गः]
189
आगङ्गं संस्कृतो मार्गः सर्वसाधनपुष्कलः


 परिखा इति । भित्त्यर्थं खाताः पर्यन्तप्रदेशा इत्यर्थः । इन्द्रनीलनिर्मिताः प्रतिमाः- चित्रप्रतिमाः येषु निवेशेषु ते तथा । रत्या प्रतोली' ॥ १८ ॥

प्रासादमालासंसक्ताः [१] सौधप्राकारसंवृताः ।
पताकाशोभिताः सर्वे सुनिर्मितमहापथाः ॥ १९ ॥

 संसक्ताः – संयुक्ताः । 'सौधोऽस्त्री राजसदनम्' तदपेक्षितप्राकारेण संवृताः ॥ १९ ॥

 वितर्दिभिरिवाकाशे विटङ्काग्रविमानकैः ।
समुच्छ्रितैर्निवेशास्ते बभ्रुः शक्रपुरोपमाः ॥ २० ॥

 आकाशे वितर्दिभिरिव - धिष्ण्यैरिव स्थितैः । विटङ्काग्राणिकपोतपालिकायां तु विटङ्कं पुंनपुंसकम्'–परितः अग्रदेशे विटङ्कवन्ति विमानानि-सप्तभूमिकाः प्रासादास्तथा । उपलक्षिता इति शेषः ॥ २० ॥

[२] क्वचिद्वर्षनिवेशार्थं मठा वेदविभूषिताः ।
क्वचिदापणपण्यानि पथि कृत्वाऽर्थराशयः ।
दर्शयांचक्रुरत्यर्थं जनाः केचित् पुरे तथा ॥ २१ ॥
[३]जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् ।
शीतलामलपानीयां [४] महामीनसमाकुलाम् ॥ २२ ॥


  1. सौधाः-सुधाधवलिता:- गो.
  2. एतदादि अर्धत्रयं कुत्रचिन्नास्ति - ङ.
  3. समासाद्य -- अवधीकृत्य, तत्पर्यन्तमित्यर्थ:--xxxxxxx पूर्वेणान्मयः, उत्तरेण वा । गङ्गाविशेषणैः ततः परं निवेशकरणाशक्यत्वं xxxx - गो.
  4. महाजन-ङ.