पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
188
[अयोध्याकाण्डः
मार्गसंस्कार:


चन्दनोदकसंसिक्तः [१] नानाकुसुमभूषितः ।
बह्वशोभत सेनायाः पन्थाः [२] सुरपथोपमः ॥ १४ ॥

ससुधाकुट्टिमतलः - तत्तन्निवासस्थलविशेषेषु ससुधातल, सकुट्टिमतलश्च, 'कुट्टिमोऽस्त्री निबद्धा भूः' ॥ १३-१४ ॥

[३] आज्ञाप्याथ [४] यथाऽऽज्ञप्तियुक्तास्तेऽधिकृता नराः ।
रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ १५ ॥
यो निवेशस्त्वभिप्रेतः भरतस्य महात्मनः ।
भूयस्तं [५] भूषयामासुः भूषाभि [६] [७] र्भूषणोपमम् ॥ १६ ॥

यथाज्ञप्तियुक्ताः-- यथाऽऽज्ञानं संपादित मार्गशोधनकृत्याः अधिकृता नराः निर्वृत्तमार्गशोधनमाज्ञाप्य भरतस्य मार्गवर्तिनं निवेशन भूयो भूषयामासुः, 'निवेश: शिबिरं षण्डे' । भूषणोपमं मार्गालङ्कारसदृशं निवेशविशेषणमिदम् ॥ १५-१६ ॥

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च [८] तद्विदः ।
निवेशान् स्थापयामासुः भरतस्य महात्मनः ॥ १७ ॥
[९] बहुपांसुचयाश्चापि परिखापरिवारिताः ।
तत्रेन्द्र [१०] नीलप्रतिमाः प्रतोलीवरशोभिताः ॥ १८ ॥


  1. पूर्वं पुष्पितवृक्षा: उक्ताः, अत्र तु प्रकीर्णकुसुमानि विवक्षितानि ।
  2. स्वर्गपथो-ङ.
  3. श्लोकद्वयमेकान्वयम् ।
  4. यथाज्ञप्ति- यथामति आज्ञाप्य - - कर्तुं नियम्य।
  5. शोभयामासुः-ङ.
  6. भूषणोपमं-भूषणभूतं, स्वतोऽलङ्कृतमिति यावत्- गो.
  7. स्त्रिदिवोपमम्-ङ.
  8. तद्विदः - वास्तुशास्त्रज्ञाः- गो.
  9. श्लोक एकं वाक्यम् । पांसुशब्देनात्र सूक्ष्मसिकता उच्यन्ते । इन्द्रकीलप्रतिमाः - इन्द्रकीलपर्वतसदृशाः- गो.
  10. कील - ङ.