पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८० सर्ग:]
187
चक्रुः सर्वाणि कर्माणि स्वकर्माभिरता जनाः


 'स्याद्वीरणं वीरतरु: । दुर्गाणि स्थलानीति । उन्नतप्रदेशानीति यावत् ॥ ८ ॥

अपरेऽपूरयन् कूपान् पांसुभि: [१] [२] श्वभ्रमायतम् ।
निम्नभागांस्ततः केचित् समान् चक्रुः समन्ततः ॥ ९ ॥
[३] बबन्धुर्बन्धनीयांश्च क्षोद्यान् सञ्चुक्षुदुस्तदा ।
बिभिदुर्भेदनीयांश्च तांस्तान् देशान्नरास्तदा ॥ १० ॥

 बन्धनीयान्–सन्तरणाय बन्धनीयप्रदेशान् । क्षोद्यान्- शर्कराभूयिष्ठप्रदेशान् । जलनिर्गमार्थं भेदनीयप्रदेशाः – भेदनीयाः ॥

अचिरेणैव कालेन परिवाहान् बहूदकान् ।
चक्रुर्बहुविधाकारान् सागरप्रतिमान् बहून् ॥ ११ ॥

 परिवाहाः --कुल्याः ॥ ११ ॥

निर्जलेषु च देशेषु खानयामासुरुत्तमान् |
उदपानान् बहुविधान् वेदिकापरिमण्डितान् ॥ १२ ॥

 खानयामासुरिति । अखनन्निति यावत् । उदपानान्--अधिकरणे ल्युट्, 'पुंस्येबान्धु: प्रहि: कूप उदपानं तु पुंसि वा' । बहुविधानिति । वापीकूपादिनानाप्रकारान् । बेदिकाभिः परितो मण्डिताः –अलङ्कृताः; उदपानविशेषणमिदम् ॥ १२ ॥

[४] ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः ।
मत्तोडष्टद्विजगण: पताकाभिरलङ्कृतः ॥ १३ ॥


  1. आयतं - विपुलमपि श्वभ्रं गर्ते च अपूरयन् ।
  2. धूलिशर्करै: -ङ.
  3. मार्गसञ्चलद्वल्लर्यादीनां यासां नाश: नातीवापेक्षित: तादृश्य: मार्गानिरोधाय बबन्धुरिति वा । मेदनीया: -
    मार्गमध्यस्थबृहच्छिलादयो वा ।
  4. श्लोकद्वयमेकान्वयम् ।