पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
186
[अयोध्याकाण्ड:
मार्गसंस्कार:


[१]स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः ।
करणैर्विविधोपेतैः पुरस्तात् संप्रतस्थिरे ॥ ५ ॥

 ते -- मार्गशोधकाः स्ववारं समास्थाय–स्वशोध्यमार्गदेशशोधने अन्योन्यपर्यायकरणं प्राप्य करणैः-साधनैः विविधोपेतैः- नानाप्रकारोपेतैः---खनित्रकुद्दालदात्रादिनानावान्तरभेदयुक्तैरित्यर्थः ॥

लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च ।
[२] [३] जवनं चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् ॥ ६ ॥

 लताः- शाखालता: । स्थाणून्- 'स्थाणुरस्त्री ध्रुवः शङ्कु:' । जवनम् - जवगमनार्हं ॥ ६ ॥

[४] अवृक्षेषु च देशेषु केचिद्वृक्षारोपयन् ।
केचित् कुठारैष्टङ्कैश्च दात्रैश्छिन्दन् क्वचित् क्वचित् ॥ ७॥

 ’टङ्क:’ पाषाणभेदनः । छिन्दन्-अच्छिन्दन्निति यावत् ॥ ७ ॥

[५] अपरे वीरणस्तम्बान् बलिनो बलवत्तराः ।
विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः ॥ ८ ॥


  1. स्ववारं - स्वत्वसमूहं-'वारसंघातसम्या:’ इत्यमरः-ती. स्वस्ववाटिकां वा ।
  2. वेगवाचि जवनशब्दस्यापि सत्वात् त्वरितं यथा तथा चक्रिरे इति क्रियाविशेषणं वा ।
  3. जनास्ते चक्रिरे, जनयाञ्चक्रिरे-ङ.
  4. छायार्थमिति भावः ।
  5. बलिन:- रूढमूलान् छेत्तुमशक्यान् वीरणस्तम्बान्-वीरप्प-तृणकाण्डान् विधमन्ति स्म अदहन् । दुर्गाणि - गन्तुमशक्यानि निम्नोन्नतस्थलानि
    स्थलानि-समानि चक्रुरिति शेष:- गो. यद्वा-वीरणस्तम्बान् अच्छिन्दन्-इति पूर्वेणान्वयः । दुर्गाणि स्थलानि विधमन्ति स्म-सुगमानि चक्रुरिति यावत् ।