पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४ सर्गः]
207
तत्राजगाम भरतं निषादाधिपतिर्गुह:


निवेश्य गङ्गामनु तां महानदीं

चमूं विधानैः परिबर्हशोभिनीम्

उवास रामस्य तदा महात्मनः
[१]::विचिन्तयानो भरतो निवर्तनम् ॥ २६ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्र्यशीतितमः सर्गः

 गङ्गामनु - -अनुर्लक्षणे, कर्मप्रवचनीयः । विधानैः – वासव्यवस्थाकल्पनैः । परिबईः -परिच्छदः, यात्रानिवासोपकरणपटकुटिकादिभिः शोभमानाम् । तरि (२६) मानः सर्गः ॥ २६ ॥  इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्र्यशीतितमः सर्ग:



चतुरशीतितमः सर्गः
[भरतगुहसमागमः]

[२]ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् ।निषादराजो दृष्ट्वैव ज्ञातीन् [३]सन्त्वरितोऽब्रवीत् ॥

 अथ भरतस्य गुहेन सङ्गमः । तत इत्यादि ॥ १ ॥

महतीयमितः सेना सागराभा प्रदृश्यते । नास्यान्तमधिगच्छामि मनसाऽपि विचिन्तयन् ॥ २ ॥  इतः— इह गङ्गातीरे। नास्यान्तमिति । आर्षः सन्धिः ॥ २ ॥


  1. विचिन्तमानो–च.
  2. स्वैः आश्रितां गङ्गानदीं अनु निविष्टां- इति वाऽर्थः । अथ वा ७ श्लोके 'गङ्गामन्वाश्रिताः' इति दाशविशेषणवत् अत्रापि 'गङ्गामन्वाश्रितः ' इति निषादराजविशेषणतया पाठ: स्यात् ।
  3. स परितो- ङ. च.