पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९ सर्गः]
183
श्रुत्वैतदभवन् सर्वे जना हर्षपरिप्लुता:


दर्शयति -- यस्त्वमित्यादि । दातुमिच्छसीति यत् अतः श्री:-इहामुत्र च त्वामुपतिष्ठतामित्यन्वयः ॥ १५ ॥

अनुत्तमं तद्वचनं [१]नृपात्मजः
प्रभाषितं [२] संश्रवणे निशम्य च ।
प्रहर्षजास्तं प्रति बाष्पबिन्दवः
[३]निपेतु[४]रार्यानननेत्रसंभवाः ॥ १६ ॥

 नृपात्मजः जनैः प्रभाषितमनुत्तमं तद्वचनं संश्रवणे- सम्यक् श्रवणविषये प्राप्तं निशम्य - श्रुत्वा तं प्रति तेनैव हेतुना लक्षणन, प्रतिर्लक्षणे, कर्मप्रवचनीयत्वात् तमिति द्वितीया, आर्यस्य - पूज्यस्य - भरतस्य यदार्याननं- पूज्यं मुखं, जनाशीर्वादसन्तोषोपलक्षितत्वात् पूज्यत्वं मुखस्य प्राक् दुःखदुर्दर्शनस्य, तादृशानन- वर्तिनेत्रसंभवाः – आनन्दजा इति यावत् । तदेव स्पष्टीकृतं - प्रहर्षजा इति । बाष्पबिन्दवः पेतुरिति । अत्रान्यः -- श्लोकोऽयं व्यर्थः । स्थितस्य गतिश्चिन्तनीयेति किञ्चित् व्याख्यातमित्यवोचत् । एवं चेत् विनाऽपि सर्वमपि रामायणं संक्षेपमात्रतः सर्वार्थस्य सिद्धत्वात् सर्वोऽपि व्यर्थः तस्य । अतस्तस्य स्थितगतिचिन्तनाऽसौ यथाकथश्चित् । नापि च व्यर्थः; भरतसौमुख्यस्यानुक्तस्य प्रवृत्तये अवश्यवक्तव्यत्वात् ॥ १६ ॥


  1. नृपात्मजप्रभाषितं-ङ.
  2. संश्रवणे - रामानयनप्रतिज्ञाविषये -ती. गो. निशम्य स्थितानामिति शेषः ।
  3. आर्येत्यविभक्तिकनिर्देश:, आर्याणामिति यावत्- गो. तं प्रति - भरतमधिकृत्येत्यर्थः ।
  4. रुर्व्यां जननेत्रसंभवा:- ङ.