पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
184
[अयोध्याकाण्ड:
मार्गसंस्कार:


ऊचुस्ते वचनमिदं निशम्य हृष्टाः
सामात्या: [१] सपरिषदो वियातशोकाः
पन्थानं, नरवर ! [२] भक्तिमान् जनश्च,
व्यादिष्टास्तव वचनाच्च शिल्पिवर्गः ॥ १७ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनाशीतितमः सर्गः


 इदं वचनं - रामानयनवचनम् । विशेषेण यातः - अपगतः शोकः येषां ते तथा--वियातशोकाः, राजकर्तार इति शेषः । हे नरवर ! तव वचनादेव रामे त्वयि च भक्तिमान् शिल्पिवर्ग: दुर्गे पथि रक्षी जनश्च पन्थानं करोत्वित्यूचुः । सेक (१७) मानः सर्गः ॥  इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनाशीतितमः सर्ग:


अशीतितमः सर्गः

[मार्गसंस्कारः]

अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः ।
स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा ॥ १ ॥

 अथ भरतनियुक्तशिल्प्यादिभि: मार्गशोधनम् । अथेत्यादि । भूमिप्रदेशं निम्नोन्नतादिप्रदेशं जानन्तीति भूमिप्रदेशज्ञाः [३]। सूत्रकर्मणि – निर्जलस्थलेष्वगाघवापीकूपादिजलोद्धारसूत्रकर्माणि - यन्त्र-


  1. सपरिषदोऽपि - ङ.
  2. भक्तिमान् जन:, शिल्पिवर्गश्च व्यादिष्टा:- प्रचोदिताः, तत्तत्कृत्येष्वित्यर्थः ।
    रामानयनोत्साहवशात् 'क्रियतां शिल्पिभिः पन्थाः' इति भरतकथनमात्रेण अमात्या:
    दक्षा: तत्क्षण एव पार्श्वस्थसन्देशवाहकादिद्वारा मार्गसमीकरणार्थं आज्ञां प्रेषयित्वा
    ’व्यादिष्टाः’ इत्यवदन् । कार्यनिष्पत्तिदार्ढ्याय च ' भक्तिमान्' इति पदम् ।
  3. यद्वा - नानादेशविदः - गो.