पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
182
[अयोध्याकाण्ड:
रामानयनोद्यमः

क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च ।
रक्षिणश्चानुसंयान्तु पथि दुर्ग [१] विशारदाः ॥ १३ ॥

 रामो राजा भविष्यति, अतो रामसमीपं राजोचितपरिकरोपेततया गन्तव्यम्, अतः पथि शोधः क्रियतामिति नियोजयति- क्रियतामित्यादि । शिल्पिन:--खनकादयः । विषमाणि च- निम्नोन्नतान्यपि स्थलानि समानि क्रियन्ताम् । रथशकटीसुखगमनार्थमित्यर्थः । पथि वर्तमानस्य दुर्गस्य-मलिग्लुचादिना गन्तुमशक्यप्रदेशस्य रक्षणे विशारदाः ॥ १३ ॥

एवं संभाषमाणं तं [२] रामहेतोर्नृपात्मजम् ।
प्रत्युवाच जनः सर्व: श्रीमद्वाक्यमनुत्तमम् ॥ १४ ॥

 एवं संभाषमाणं तं प्रति सर्वो जनः श्रीमत् - शुभं अनुत्तमं वाक्यमुवाच ॥ १४ ॥

एवं ते भाषमाणस्य [३] पद्मा श्रीरुप[४]तिष्ठताम् ।
यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ॥ १५ ॥

 किमुवाचेत्यतः—एवमित्यादि । एवं रामराज्यं भाषमाणस्य ते पद्माख्या पद्मचिह्ना च श्रीः त्वामुपतिष्ठतां रामानुग्रहादिति जनस्यायमाशीर्वादः भरतं प्रति । एवमाशीर्वादार्हधार्मिकत्वं जनो


  1. विचारकाः-ङ.
  2. रामहेतो: संभाषमाणमित्यन्वयः ।
  3. पद्मा-पद्महस्ता-ती. पद्मालया-गो.
  4. तिष्ठतात्-ङ.