पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९ सर्ग:]
181
आदिशत् राममानेतुं सेना सन्नह्यतामिति

ज्येष्ठस्य राजता नित्यं उचिता हि कुलस्य नः ।
नैवं भवन्तो मां वक्तुं अर्हन्ति [१] कुशला जनाः ॥ ७ ॥
रामः पूर्वो हि [२] नो भ्राता भविष्यति महीपतिः ।
अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च ॥ ८ ॥

 अहं त्वरण्ये वत्स्यामीति । 'पितृवचनं मया परिपालनीयम्' इति रामो वदति चेत् तत्प्रतिनिधित्वेनेति शेषः ॥ ८ ॥

युज्यतां महती सेना चतुरङ्गमहावला ।
आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् ॥ ९ ॥
आभिषेचनिकं चैव सर्वमेतत् [३] उपस्कृतम् ।
पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति ॥ १० ॥

 रामहेतोरिति । रामाभिषेकार्थमित्यर्थः ॥ १० ॥

तत्रैव तं नरव्याघ्रं अभिषिच्य [४] पुरस्कृतम् ।
[५] आनयिष्याम्यहं रामं हव्यवाहमिवाध्वरात् ॥ ११ ॥

 हव्यवाहमिवाध्वरादिति । अध्वरात्-महायज्ञशालायाः स्वाग्निहोत्रगृहमिवेत्यर्थः ॥ ११ ॥

न सकामां करिष्यामि [६]स्वामिमां [७] पुत्रगन्धिनीम् ।
वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति ॥ १२ ॥

पुत्रगन्धिनीमिति पाङ्कः पाठः ॥ १२ ॥


  1. कुशलाः - स्वाधीनमतयः, न्यायपरा वा भवादृशा इत्यर्थः ।
  2. मे-ङ.
  3. उपस्कृतं--संन्नद्धं, अत्रानीतं वा ।
  4. पुरस्कृतं – पूजितं, 'पुरस्कृत: पूजितेरात्यभियुक्तेऽग्रतः कृते’ इति वैजयन्ती।
    यद्वा- पुरस्कृतं -स्वजनदर्शनेनाभिमुखीकृतम् - गो.
  5. अनेष्यामि तु वै-ङ.
  6. मातरं पुत्रगर्धिनीम्, स्वामिमां मातृगन्धिनीम्-ङ.
  7. मातृगन्धिनीम्-केवलमातृव्यपदेशां, लेशमात्रमातृभावामिति वा, 'गन्धो लेशे महीगुणे' इति वैजयन्ती - गो.